________________
५९८
न्यायकोशः। बहिरिन्द्रियम्- ( इन्द्रियम् ) [क] मनोभिन्नमिन्द्रियम् ( राम० १
- साधर्म्य० पृ० ५८)। यथा घ्राणम् बहिरिन्द्रियम् । बहिरिन्द्रियाणि : पञ्च । घ्राणम् रसनम् चक्षुः त्वक् श्रोत्रम् (गौ० १।१।१२ ) इति ।
[ख] शब्दादिबाह्यविषयग्राहकमिन्द्रियम् । बहिरिन्द्रियलक्षणं च घाणाद्यन्यान्यत्वम् (गौ० वृ० १।१।१२ )। अत्रेदमवधेयम् । प्राचीन
नैयायिकमते वायोरप्रत्यक्षत्वेन बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षे रूपं कारणम् . इति कार्यकारणभावः स्वीकृतः । तेन वायौ रूपाभावेन न तत्प्रत्यक्षम्
इति। नवीननैयायिकमते तु वायोरपि त्वाचप्रत्यक्षविषयत्वेन बहिरिन्द्रिय....जन्यद्रव्यप्रत्यक्षमात्रे रूपं कारणम् इति न कार्यकारणभावः । किंतु ..तादृशप्रत्यक्ष आत्मावृत्तिशब्दभिन्नविशेषगुणवत्त्वं प्रयोजकम् इति - प्रयोज्यप्रयोजकभावः स्वीकृतः । तेन वायोरपि त्वाचप्रत्यक्षत्वमुपपद्यते ..( भा० ५० श्लो० ५७ टी० मु० १ पृ० ११३ )। बहिर्द्रव्यम्-आत्मान्यद्रव्यम् (नील० २ पृ० २६ )। यथा पृथिवी
बहिर्द्रव्यम् । अत्र बहिष्ट्वं चात्मान्यत्वम् । मानसलौकिकप्रत्यक्षविषया- न्यत्वं वा (म० प्र० २ पृ० २९)। बहिष्पवमानम् —उपास्मै गायता नरः । दविद्युतत्या रुचा। पवमानस्य ते ____कवे । इति सूक्तत्रयगानसाध्यं स्तोत्रं बहिष्पवमानमित्युच्यते (जै० . न्या० अ० १ पा० ४ अधि० ३ )। बहुत्वम्-(संख्या ) १ प्रतिनियतैकत्वानालम्बनापेक्षाबुद्धिजनितत्रित्वादि
संख्या ( वै० उ०)। यथा बहवो ब्राह्मणाः सन्ति इत्यादौ बहुत्वम् ।
अत्रेदं बोध्यम् । सेनावनादौ च शताद्यभिव्यक्तिस्तु न भवति । तादृश। व्यञ्जकाभावात् इति ( वै० उ० ७।२१८ पृ० ३२३ )। २ उपस्कार
मते तु त्रित्वादिसमानाधिकरणं संख्यान्तरमेव बहुत्वम् । यथा भवति हि शतं वा सहस्रं वा चूतफलान्यानयामि इति प्रश्ने बहवस्तावदा- नीयन्ताम् किं विशेषजिज्ञासया इत्युत्तरम् । इदं च त्रित्वादिजनकापेक्षा- बुद्ध्या जन्यते । अत्रेदं बोध्यम् । द्वित्वसहितापेक्षाबुद्ध्या त्रित्वमुत्पद्यते ।
त्रित्वसहितापेक्षाबुद्ध्या चतुष्वमुत्पद्यते । एवमुत्तरोत्तरम् । बहुत्वोत्पत्तौ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org