________________
न्यायकोशः। प्रोक्षणी-संस्कृतं जलम् । यथा प्रोक्षणीभिरुद्वेजिताः स्मः ( जै० न्या०
अ० १ पा० ४ अधि० ९)। प्रोत्साहनम्-हर्षानुकूलव्यापारः । यथा होत्रे प्रतिगृणातीत्यादौ गृणातेरर्थः
प्रोत्साहनम् । अत्र धात्वर्थप्रोत्साहनैकदेशे हर्षे होत्रादेरन्वयः । तेन होतृनिष्ठहर्षानुकूलव्यापारवान् इत्याकारकस्तत्र बोधः ( श० प्र० कार० ४
श्लो० ६९ टी० पृ० ९९)। प्लीहा-वामपावस्थितो मांसविशेषः ( संगीतरत्नाकरे पृ० १९) ।
फकिका-१ असद्व्यवहारः । २ तत्त्वनिर्णयार्थ पूर्वपक्षादिबोधकं वाक्यम् ।
यथा फणिभाषितभाष्यफक्किका ( नैष० ) इत्यादौ ( वाच० )।३ कर्म
कलापादिबोधको वाक्यरचनारूपः शब्दः इति याज्ञिका वदन्ति ।। फल-(धातुः ) १ भेदनम् । यथा फलति काष्ठम् । भिनत्तीत्यर्थः।२ आरम्भः।
यथा फलितः यज्ञः । आरब्ध इत्यर्थः । ३ निष्पत्तिः । यथा फलितः पट
इत्यादौ । ४ गतिः । यथा फलयति प्रामम् इत्यादौ ( वाच० )। फलचमस:-न्यग्रोधमुकुलरूपस्य फलस्य पिष्टं चम्यते यत्र स फलचमसः
( जै० न्या० अ० ३ पा० ६ अधि० १३ )। फलम्-१ [क] प्रवृत्तिदोषजनितोर्थः फलम् (गौ० १।१।२० )।
सुखदुःखसंवेदनं फलम् । सुखविपाकं कर्म दुःखविपाकं च । तत्पुनदेहेन्द्रियविषयबुद्धिषु सतीषु भवतीति सह देहादिभिः फलमभिप्रेतम् ( वात्स्या० १।१।२०)। फलसामान्यलक्षणं तु जन्यत्वम् ( गौ० वृ० १११।२०) । यथा घटजन्यो घटध्वंसोपि घटस्य फलम् । कचित् प्रवृत्त्युद्देश्यत्वम् ( दि० १ मङ्ग० पृ० ८ )। यथा नव्यमते मङ्गलस्य विघ्नध्वंस एव फलम् (मु० १ मङ्गल० पृ० ८)। कचिच्च स्वकर्तव्यताप्रयोजकेच्छाविषयत्वम् ( मू० म० १)। यथा स्वर्गार्थयागकर्तव्यताप्रयोजकस्वर्गेच्छाविषयत्वेन स्वर्गो यागफलं भवति । अधिकं तु प्रयोजन,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org