________________
न्यायकोशः। प्रीतिः- -१ सुखविशेषः (मु० गु०)। २ हर्षः । यथा प्रीयतां पुरुषोत्तम
इत्यादौ । ३ तृप्तिः। ४ कामस्य पन्या रत्याः सपत्नी इति पौराणिका
आहुः ( मात्स्य–पु० अ० ८२ ) ( वाच० )। प्रेत्यभावः-[क] पुनरुत्पत्तिः प्रेत्यभावः (गौ० १।१।१९) ।
उत्पन्नस्य कचित्सत्त्वनिकाये मृत्वा या पुनरुत्पत्तिः स प्रेत्यभावः । उत्पन्नस्य संबद्धस्य संबन्धस्तु देहेन्द्रियमनोबुद्धिवेदनाभिः पुनरुत्पत्तिः पुनर्देहादिभिः संबन्धः ( वात्स्या० १।१।१९.) । अत्र वृत्तिः । प्रेत्य मृत्वा भावो जननं प्रेत्यभावः । तत्र पुनरित्यनेनाभ्यासकथनात् प्रागुत्पत्तिस्ततो मरणम् तत उत्पत्तिरिति प्रेत्यभावो जननादिरपवर्गान्तः । एतज्ज्ञानं च वैराग्य उपयुज्यते इति प्रेत्य इति न व्यर्थम् (गौ० वृ० १११११९) (नील०)। अयं धर्माधर्माभ्यामुत्पद्यते । अस्यैव च प्रेत्यभावस्य अजरंजरीभाव इति वैदिकी संज्ञा ( वै० उ० ६।२।१५)। प्रेत्वभावश्च आत्मनः पूर्वदेहनिवृत्तिः उत्तरदेहसंघातलाभः इति (त० भा० पृ० ४० ) । पुनर्ग्रहणं संसारानादित्वज्ञापनार्थम् । [ख] पूर्वोपात्तशरीरादिपरित्यागादन्यशरीरसंक्रान्तिः (न्या० वा० १।१।१९ पृ० ८६ )। [ग] मरणोत्तरं जन्म (दि० १ ) ( त० दी०) (नील०) ( ता० र० श्लो० ३१ )। तद्यथा श्रूयते वसिष्ठर्षेरुर्वश्यां पुनरुत्पत्तिः इति । [घ] जन्ममरणप्रबन्धः संसारः ( वै० उ० ६।२।१५)। प्रबन्धः प्रवाहः ( वै० वि० ६२।१५)। [ङ ] प्रवाहरूपेणानादि
संबन्धः संसारः ( वाच० )। प्रेरणम्-[क] प्रयोजकव्यापारः (धर्मविशेषः ) । यथा देवदत्तो
यज्ञदत्तन तण्डुलं पाचयतीत्यादौ णिजों देवदत्तसमवेतव्यापारः । [ख] प्रेषणम् । तच्च निकृष्टस्य भृत्यादेः कार्यादौ नियोगः इति वैयाकरणा आहुः। [ग] मीमांसकास्तु प्रवर्तकनिष्ठः प्रवृत्त्यनुकूलव्यापारः। स च लिङादिसमभिव्याहारे लिङाद्यन्तशब्दरूपः (ल०म०)। [घ] स्वाभिलषितोपायाज्ञानादप्रवृत्तापकृष्टप्रयोज्यस्योपायविषयकप्रवृत्त्यनुकूलो व्यापारः । यथा स्वर्गकामो यजेत जलमाहरेत्यादौ लिङाद्यर्थो विधिः प्रेरणम् इत्याहुः ( वै० सा० द०)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org