________________
५९६
न्यायकोशः। शब्दव्याख्यानावसरे संपादितम् । [ख] वैयाकरणादयस्तु यदुद्देशन श्रुतेर्लोकतो वा प्रवृत्तिरवगता तत् इत्याहुः ( वै० भू० द० धात्व० पृ० ७ )। न्यायमते फलं द्विविधम् । मुख्यम् गौणं च । तत्राद्यं सुखदुःखोपभोगः । लक्षणं च सुखदुःखान्यतरसाक्षात्कारत्वम् ( गौ० वृ० १।१।२० )। अथवा तदीयमुख्यफलत्वं तु यत्कामनात्वेन तदीयफलं प्रति जनकता तत्त्वम् । यथा स्वर्गादिकामना स्वप्रयोज्यदर्शादिसंबन्धेन दर्शादिफलस्वर्गादिकं प्रति जनिका ( मू० म० मङ्गल० पृ० २२) अत्र वेदान्तिन आहुः । अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ (गीता० अ० १८ श्लो० १२ ) इति । द्वितीयं शरीरादिकं सर्वमेव (गौ० वृ० १।१।२०) (न्या० वा० १११।२० पृ० ८६ ) । अत्रोच्यते फलं प्रवृत्तिसाध्यं स्यात् तच्च देहसुखादिकम् ( ता० २० श्लो० ३२ ) इति । २ धात्वीयवृत्तिग्रहप्रकारताश्रयः । यथा क्रियाजन्यफलशालित्वं कर्मत्वम् इत्यत्र प्रामं गच्छतीत्यादावुत्तरदेशसंयोगः फलम् । अत्र सकर्मकधातूनां फलावच्छिन्नव्यापारे शक्तिः इत्यभिप्रायेणोक्तमिदम् इति ज्ञेयम् । कर्माख्यातसमभिव्याहारस्थले तु शाब्दबोधे फलस्य द्विधाभाने चेष्टापत्तिरेव शरणम् इति भावः । अत्र शाब्दिका आहुः । यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः । तत्प्रधानं फलं तेषां न लाभादिः प्रयोजनम् ॥ (भर्तृ० ) इति । तेन पाकादिजन्यं भोजनम् यागादिजन्यं च पुण्यमेव फलम् न वेतनादिरूपं फलम् । तेन सूदकस्य ऋत्विगादेर्वा न धात्वर्थजन्यफलभागित्वम् इति । केचिच्छाब्दिकास्तु कर्तृप्रत्ययसमभिव्याहारे धात्वर्थजन्यत्वे सति धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारताश्रयः फलम् इति वदन्ति । अत्राधिकं तु धातुशब्दव्याख्यानावसरे संपादितम् ।
फलोपधायकत्वम्- फलनिष्पादकत्वम् ।
फलोपहितत्वम्- फलनिष्पादकत्वम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org