________________
५८८
न्यायकोशः।
पम् ।
वायुविकारः इति सांख्या आहुः । ३ परब्रह्म (विष्णुः ) प्राणशब्दवाच्यम् इति वेदान्तिन आहुः । अत्र प्रमाणानि ॐ अत एवं प्राणः ॐ ( ब्रह्मसू० १११।२३ )। तद्वै त्वं प्राणो अभवः महाभोगः प्रजापतेर्भुजः करिष्यमाणः यद्देवान् प्राणयो नव इति । श्रीश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्व ( श्रुतिः) इति च ( मध्वभा० १११।२३ )। तथा ॐ प्राणस्तथानुगमात् ॐ (ब्रह्मसू० १।१।२८)। तं देवाः प्राणयन्त स एषोसुः स एष प्राणः स एष भूतिश्च प्राण ऋच इत्येवं विद्यात् तदयं प्राणोधितिष्ठति ( श्रुतिः ) इति (मध्वभा० १।१।२८ ) । प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो मनः (श्रुतिः) इति च ( मध्वभा० १।४।१३)। ४ दशगुरुवर्णः प्राणः षट् प्राणाः स्याद्विनाडिका तासाम् । षष्ट्या घटी घटीनां षष्ट्याहोरात्र उक्तश्च । ( मिताक्षरा २।१०२ )। अहोरात्रशब्दे दृश्यम् । प्राणायामः- ( योगाङ्गम् ) [क] तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः ( पात० सू० पाद० २ सू०.४९ )। तस्मिन् आसनस्थैर्ये सति इत्यर्थः (गौ० वृ० ४।१११ )। [ख] प्राणवायोर्गतिविच्छेदकारकव्यापारविशेषः । अत्रोक्तं ज्ञानार्णवे कनिष्ठानामिकाङ्गुष्ठर्यन्नासापुटधारणम् । प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ।। इति ( वाच० )। स च प्राणायामो द्विविधः । सगर्भः निगर्भश्च । तत्राद्यो मन्त्रजपेन । द्वितीयो मात्रया। मात्रा तु वामजानुनि तद्धस्तभ्रामणमात्रकालः ।
अधिकं तु तत्रसाराज्ज्ञेयम् । प्रातः- ( अव्ययम् ) १ सूर्योदयावधि मुहूर्तत्रयमितः कालः । यथा
सर्वेषामुपवासानां प्रातरेव हि पारणम् इत्यादौ । अत्र स्मृतिः प्रातःकालो मुहूर्तास्त्रीन्संगवस्तावदेव तु ( वाच० ) इति । अन्यत्राप्युक्तम् । मुहूर्तत्रितयं प्रातस्तावानेव तु संगवः । मध्याह्नस्त्रिमुहूर्तः स्यादपराह्वश्च तादृशः॥ सायाह्नस्त्रिमुहूर्तः स्यात्सर्वकर्मसु गर्हितः। अन्यत्रापि प्रातस्तु संस्मृतः कालो भागश्चाह्नः स पञ्चमः । संगवस्त्रिमुहूर्तोथ मध्याह्नस्तु समः स्मृतः ।। ततस्त्रयो मुहूर्ताश्च अपराह्नोभिधीयते। पञ्चमोथ दिनांशो यः स सायाह्न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org