________________
५८६
न्यायकोशः। . २।६।९ ) इति । प्रागभावलक्षणं तु विनाश्यभावत्वम् (मु० ) ( न्या०
म० १ पृ० ११) (त० सं० )। अत्रायं विशेषो ज्ञेयः। प्रागभावस्य सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वं नास्ति। किंतु तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वमेव इति (वाच०)। शाब्दिकास्तु कारणे शक्तिरूपेणावस्थानम् इत्याहुः ( ल० म० धात्व० पृ० ६ )। सांख्यास्तु भावस्या
नागतावस्थैव प्रागभावः इत्याहुः। प्राग्देशम्-अभिजित् ( पु० चि० पृ० ३५४)।। प्राङ्न्यायः-आचारेणावसन्नोपि पुनर्लेखयते यदि । सोभिधेयो जितः
पूर्व प्राङ्न्यायस्तु स उच्यते ॥ (मिताक्षरा अ० २ श्लो० ७)। प्राची-(दिक् ) [क] यदपेक्षया सूर्योदयाचलसंनिहिता या दिक् सा
तदपेक्षया प्राची। संनिधानं तु संयुक्तसंयोगाल्पीयस्त्वम् । ते च सूर्यसंयोगा अल्पीयांसो भूयांसो वा दिगुपनेयाः ( वै० उ० २।२।१० )। अत्र व्युत्पत्तिः प्राक् अस्यां सविता अञ्चति इति प्राची (वै० उ० २।२।१४ । [ख] यस्यां दिशि मेरुप्रदक्षिणक्रमेण भ्रमत आदित्यस्य प्रथमं संयोगो भूतपूर्वो भविष्यन्वा भवन्वा सा दिक्प्राची (वै० उ० २।२।१४ ) । अत्र सूत्रम् आदित्यसंयोगाद्भूतपूर्वाद्भविष्यतो भूताच्च प्राची (वै० २।२।१४ ) । अत्र पुरुषाभिसंधिभेदमाश्रित्य कालत्रयोपवर्णनम् । भवति हि कस्यचित् पूर्वेद्युः प्रातरस्यां दिशि आदित्यसंयोगः प्रथमं वृत्तः इति इयं प्राची इति प्राचीव्यवहारः। कस्यचित् अपरेछुरस्यामादित्यसंयोगः प्रथमं भावी इत्यभिसंधाय प्राचीव्यवहारः । कस्यचित् इदानीमस्यामादित्यसंयोगो भवन्नस्ति इत्यभिसंधाय प्राचीव्यवहारः। सूत्रे भूतादित्यत्रादिकर्मणि क्तप्रत्ययः (वै० उ० २।२।१४)। एवम् दिगन्तरव्यवहारोपि स्वयं परिकल्पनीयः । [ग] उदयाचलसंनिहितदेशावच्छिन्ना दिक् ( वाक्य० १ पृ० ५)। [घ] उदयाचलसंनिहितमूर्तावच्छिन्ना दिक् (नील० १ पृ० १०)। [3] उदयाचलसंनिहिता या दिक् सा (न्या० बो० पृ० ३ )। [च यदपेक्षयोदयगिरिसंनिहितं यन्मूर्त सा ततः प्राची । तदपेक्षयो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org