________________
न्यायकोशः। प्रसादः-कर्तृत्वनिर्वाहकं वरप्रदानम् ( कि० व० ६)। यथा प्रसाद
कुरु देवेश इत्यादौ । कर्तृत्वनिर्वाहश्च फलप्राप्त्या भवति । प्रसारणम्—(कर्म) [क] शरीरविप्रकृष्टहेतुः कर्मविशेषः ( त० सं० ) (त० कौ० )। ऋजुतासंपादकम् इत्यर्थः ( त० दी० )। लक्षणं च दूरदेशसंयोगजनकक्रियानुकूलक्रियात्वम् (ल० व०)। [ख] एवमाकुञ्चिताङ्गानां यत्कर्मोत्पद्यते पुनः । अनारम्भकसंयोगनाशकं तत्प्रसारणम् ।। (त० व० पृ० २४१)। [ग] आकुञ्चनविपर्ययेण संयोगविभागोत्पत्ती येन कर्मणावयवी ऋजुः संपाद्यते तत् प्रसारणम् (प्रशस्त. पृ० ३७)। [घ प्रसारणत्वजातिमत् । [3] विस्तारकरणक्रियाविशेषः
इति केचित् ( वाच० )। प्रसिद्धिः-१ ज्ञानम् । २ ख्यातिः। ३ भूषणम् । ४ टङ्कारः इति
केचिदाहुः ( वाच० )। प्रसुप्तत्वम्-प्रबोधसहकार्यभावेनानभिव्यक्तिः (सर्व०सं०पृ०३५९ पात०)। प्रस्तावना-१ आरम्भः । यथा आर्य बालचरितप्रस्तावनाडिण्डिमः (वीरच०) इत्यादौ । २ आमुखाख्यं नाटकाङ्गम् इति साहित्यशास्त्रज्ञा
आहुः ( वाच० )। तदुक्तम् आमुखं तत्तु विज्ञेयं नाना प्रस्तावनापि सा - ( सा० द० परि० ६ श्लो० २८७ ) इति । प्रस्थानम्-१ गमनम् । २ अभीष्टवस्तुचालनम् इति मौहूर्तिका आहुः
(धर्मसिन्धौ प० ३ पृ० ११७ )। प्रागभावः-(अभावः).[क] प्रतियोगिसमवायिकारणवृत्तिः प्रतियोगि
जनकः भविष्यति इति व्यवहारहेतुरभावः ( त० दी० ) (न्या० म० पृ० ११ ) ( त० प्र०) । यथा इह कपाले घटो भविष्यति इति प्रतीतिसाक्षिकः अभावः (त० कौ० ) (प्र० प्र०)। [ख ] उत्पत्तेः प्राक् समवायिकारणे कार्यस्य संसर्गाभावः । [ग] अनित्यः अनादितमः प्रागभावः ( सर्व० सं० पृ० २३२ अक्षपा० )। अत्रेदं बोध्यम् । उत्पन्नस्यैव पुनरुत्पत्त्यापत्तिनिवारणार्थ प्रागभावः अवश्यं स्वीकार्यः । स च कार्यस्योत्पत्तेः पूर्वं कार्यस्य समवायिकारणे तिष्ठति ( त० ३० . न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org