________________
५८२ ___न्यायकोशः। प्रश्वासः-कोष्ठयस्य वायोः बहिनिःसारणम् (सर्व० सं० पृ० ३७६ पातञ्ज०)। प्रष्ठौही—यावता वयसा वर्षत्रयरूपेण पृष्ठे भारं वोढुं शक्तिर्भवति ताव• द्वयस्का प्रष्ठौही ( जै० न्या० अ० ४ पा० ४ अधि० १)। प्रसक्तिः-१ अनुमितिः (दीधि०)।२ आपत्तिः। ३ प्रसङ्गः । ४ व्याप्तिः।
यथा अतिप्रसक्तिरन्यधर्मत्वे ( सां० सू० अ० १ सू० ५३ ) इत्यादौ । तदर्थश्च बन्धतत्कारणयोभिन्नधर्मत्वेतिप्रसक्तिः मुक्तस्यापि बन्धापत्तिः इति ( सां० प्र० भा० ११५३ )। तथा च अत्र अतिप्रसक्तिः अति
व्याप्तिरित्यर्थः । ५ प्राप्तिः । यथा प्रसक्तं हि निषिध्यते इत्यादौ । प्रसङ्गः-१ ( संगतिः ) [क] उपोद्घातादिभिन्नस्मरणप्रयोजकसंबन्धः
(राम० )। प्रतियोगित्वानुयोगित्वाधारत्वादीनामप्यत्रैवान्तर्भावः (म० प्र० २ पृ० १५)। प्रसङ्गत्वं च संगतित्वे सत्युपोद्धातादिभिन्नत्वम् ( जगदीशः)। [ख ] स्मृतस्योपेक्षनाईत्वम् ( नील० १ पृ० १५ ) (म० प्र० २ पृ० १५)। यथा यथार्थानुभवरूपप्रमाविभजनानन्तरं प्रमाकरणविभजने प्रसङ्गः संगतिः (त० दी० १ पृ० १५)। स्मृतस्योपेक्षानहत्वमित्यस्यार्थश्व स्मृतिकालावच्छेदेनोपेक्षानहत्वम् (भवा० )। यद्वा द्वेषविषयतानवच्छेदकः स्मृतिविषयतावच्छेदको धर्मः इति ( अनुमितिग्रन्थे गदाधरः )। अथवा स्मृतिकालावच्छिन्नोपेक्षानर्हतावच्छेदकधर्मवत्त्वम् (वै० सा० द०)। २ व्याप्तिरूपः प्रकृष्टसंबन्धः। यथा अनिप्रसङ्गः अप्रसङ्गः इत्यादौ । ३ वैयाकरणास्तु प्राप्तिः । यथा कृताकृतप्रसङ्गि नित्यम् तद्विपरीतमनित्यम् (परिभाषेन्दु० पृ० ८१) इत्यादी इत्याहुः । ३ मीमांसकास्तु अन्योदेशेन प्रवृत्तौ तदन्यस्यापि सिद्धिः प्रसङ्गः। अथवा अन्योदेशेनान्यदीयस्यापि सहानुष्ठानं प्रसङ्गः ( जै० न्या० अ० १२ पा० १ अधि० १ ) । यथा पश्वर्थमनुष्ठितेन प्रयाजादिना पशुतन्त्रमध्यपातिनः पुरोडाशस्याप्युपकारः सिद्ध्यति । यथा वा तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् इत्यत्र आभिक्षार्थं प्रवृत्तौ अनुद्देश्यवाजिनस्यापि सिद्धिः । यथा वा काम्ययागनिष्पत्त्यर्थमनुष्ठितैराग्नेयादिभिनित्ययागादिसिद्धिः इत्याहुः (मिता० ) (प्रा० त० ) ( वाच०)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org