________________
न्यायकोशः ।
1
प्रसङ्गसम : - ( जाति: ) [क] दृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थानात्प्रसङ्गसमः (गौ० ५।१।९ ) । साधनस्यापि साधनं वक्तव्यमिति प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः । क्रिया हेतुगुणयोगी क्रियावाँल्लोष्ट इति हेतुर्नापदिश्यते । न च हेतुमन्तरेण सिद्धिरस्तीति ( वात्स्या० ५।१।९ ) । अत्र वृत्तिः । दृष्टान्तस्य कारणं प्रमाणम् । तदनपदेशोनभिधानम् । अभिधानं चानतिप्रयोजकम् । तथा च दृष्टान्तस्य साध्यवत्त्वे प्रमाणाभावात् प्रत्यवस्थानम् अर्थः । यद्यपीदं सदुत्तरमेव तथापि दृष्टान्ते प्रमाणं वाच्यम् तत्रापि प्रमाणान्तरम् इत्यनवस्थया प्रत्यवस्थाने तात्पर्यम् । तदुक्तमाचार्यैः अनवस्थाभासप्रसङ्गः प्रसङ्गसमः इति । एतन्मते हेतोर्हेत्वन्तरम् इत्यनवस्थापि प्रसङ्गसम एव । पूर्वमते तु हेत्वनवस्थादिकं वक्ष्यमाणाकृतिगणेष्वन्तर्भूतम् इति विशेषः । अनवस्थादेशनाभासोयम् इति विज्ञेयम् ( गौ० वृ० ५|१|९ ) । [ख] साधनपरंपराप्रश्नः । यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वाल्लोष्टवदित्यादौ क्रियावत्त्वे क्रियाहेतुगुणवत्त्वं साधनम् । तत्र किं साधनम् । न हि साधनं विना कस्यचित्सिद्धिरस्ति । एवं तत्रापि किं साधनम् इत्यादि ( नील० पृ० ४४ ) । [ग] अनवस्थाभासप्रसङ्गः प्रसङ्गसमः इत्युदयनाचार्याः आहुः ( गौ० वृ० ५ ११९ ) । तथा चोक्तम् सिद्धे दृष्टान्तत्वादौ कारणप्रश्नपूर्वकम् । अनवस्थाभासवाचः प्रसङ्गसमजातिता ॥ इति । ( ता० २० परि० २ श्लो० ११३ ) । प्रसङ्गी – सवनीय पुरोडाशः (जै० न्या० अ० ११ पा० ३ अधि० १६ ) । प्रसज्यः – १ प्रसज्यप्रतिषेधवदस्यार्थोनुसंधेयः । अत्रार्थे भीमो भीमसेनवत् प्रसज्यप्रतिषेधशब्दस्यान्त्यलोपे प्रसज्य इति रूपं सिद्ध्यति । २ प्रसञ्जनकर्मभूतः । आपाद्यः इति यावत् ।
प्रसज्यप्रतिषेधः - ( नमर्थः ) [क] संसर्गाभावः । तदर्थश्च क्रियासमभिव्याहृतनप्रतिपाद्योत्यन्ताभावः इति ( ल० म० ) । यथा चैत्रो न पचतीत्यादौ नमर्थः ( चि० ) । अत्र पाककृत्यभाववाँचैत्रः इति शाब्दबोधः । यथा वा भूतले घटो नास्तीत्यादौ नञर्थोत्यन्ताभावः ।
Jain Education International
For Personal & Private Use Only
५८३
www.jainelibrary.org