________________
न्यायकोशः। प्रशंसा-( स्तुतिः ) गुणाविष्करणम् । प्रश्नः- [क] अभिधानप्रयोजनादिजिज्ञासा ( कु० ५)। यथा भोः किं तव नामधेयम् किमर्थं च भवतावागतम् इति प्रश्नः। अत्र जिज्ञासाशब्देन तत्प्रयोज्यकथानुकूलव्यापारो लक्ष्यते । [ख] अविज्ञातप्रार्थनं च प्रश्न इत्यभिधीयते। [ग] जिज्ञासाविष्करणम् । यथा कीदृशो गवयपदवाच्यः इति प्रश्नः (म० प्र० ६ पृ० ३४ )। [] शाब्दिकास्तु उत्तरप्रयोजिकेच्छा इत्याहुः (वै० सा० द०) [3] जिज्ञासाज्ञानोदेश्यकप्रवृत्त्यधीनशब्दः । यथा गुरुं धर्म पृच्छतीत्यादौ पृच्छतेरर्थः । अत्र धात्वर्थघटकज्ञाने गुरुवृत्तित्वस्यान्वयः । शब्दे च धर्मविषयकत्वस्य अन्वयः (ग० व्यु० का० २ पृ० ४६ )। शब्दस्य च विषयता व्यापारानुबन्धिनी । व्यापारस्तु ज्ञानम् इति बोध्यम् । अत्राधिकं तु पृच्छाशब्दव्याख्यानावसरे संपादितम् तत्तत्रैव दृश्यम् । [च जिज्ञासाविषयार्थज्ञानानुकूलः केन पथा गन्तव्यम् इत्यभिलापादिरूपो व्यापारः । यथा माणवकं पन्थानं पृच्छतीत्यादौ पृच्छेरर्थः । अत्र माणवकस्य व्यापारे संबन्धसामान्येनान्वयः । ज्ञानविषयत्वेन पथः कर्मत्वम् । माणवकेन च तज्ज्ञानाश्रयत्वं संबन्धः (ल० मा० सुबर्थ० पृ० ९२ ) । अत्रेदं बोध्यम् । यद्धर्मविशिष्टे यद्धर्मावच्छिन्नस्य संबन्धो यत्प्रश्नवाक्यात्प्रतीयते तदुत्तरवाक्यात् तद्धर्मविशिष्ट एव तद्धर्मव्याप्यधर्मावच्छिन्नसंबन्धश्चेत्यतीतो भवति तदैव च प्रश्नोत्तरभावनिर्वाहः । यथा कस्माद्भटः इति प्रश्ने दण्डाद्बटः इत्युत्तरम् । यथा वा किं करोति इति प्रयत्नविशिष्टे प्रश्ने पचति इत्यनेन पाककृतिबोधः ( त० प्र० ख० ४ पृ० ७३ )। एवम् प्रश्नवाक्ये यत्प्रधानम् तत्समानलिङ्गवचनशब्देनैवोत्तरं यथाकथंचित्प्रश्नविषयजिज्ञासानिवर्तकम् । एवं च के शिष्या अस्य इति प्रश्ने कठाः इत्येवोत्तरम् न तु कठः इति । एवम् किंशिष्योयम् इति बहुव्रीहिसमासेन प्रश्ने कठः इत्येव न तु कठाः इति । तस्य कठत्वे शिष्याणां कठत्वमर्थप्राप्तम् इत्यार्थमिदमुत्तरम् इति ( ल० म० लका० पृ० ७६)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org