________________
न्यायकोशः। यस्ताः पुरुषभेदमनुविधीयमाना उभयरूपा भवन्ति । वीतरागप्रवृत्तिरेकधा । तत्र या वीतरागाणां प्रवृत्तिः सा खल्वेकरूपा । अनिष्टप्रतिषेधार्था । अनिष्टं हास्याम इत्येव ते प्रवर्तन्ते । न पुनरेषां कचिदभिषङ्गोस्ति । रागादिमत्प्रवृत्तिस्तु द्विरूपा । ये तु रागादिमन्तस्तेषां याः प्रवृत्तयस्ता द्विविधा भवन्ति । इष्टानिष्टविषयाधिगमप्रतिषेधार्थाः इष्टमाप्स्यामीति सक्तः प्रवर्तते । अनिष्टं हास्यामीति द्वेषान्निवर्तते । रागादिमत्प्रवृत्तेरपि द्वैविध्यं भवति । समर्थासमर्थभेदात् । या खलु रागादिमत्प्रवृत्तिः सा समर्था असमर्था च भवति। इष्टमाप्स्यामीति प्रवर्तमानो यदा प्राप्नोति तदा समर्था । तथा अनिष्टं हास्यामीति प्रवर्तमानो यदा जहाति तदा समर्था । यदा विपर्ययस्तदा असमर्थेति (न्या० वा० पृ० ३ )। भट्टपादा आहुः । लोके प्रवृत्तिर्द्वधा । स्वेच्छाधीना . परप्रेरणाजन्या च । तत्राद्यायां प्रवर्तनाया अनुपयोगेपि द्वितीयप्रवृत्तौ सा प्रयोजिका । आचार्यप्रेरणयेदं करोमि इति व्यवहारात् (दि. गु० प्रयत्ननि० पृ० २२६) । २ शब्दानामर्थबोधनशक्तिविशेषः प्रवृत्तिः । यथा प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ( कुमार० २।१७ ) इत्यादौ । ३ स्वविषय इन्द्रियादीनां संचारः । ४ प्रवाहः । ५ वार्ता इति काव्यज्ञा
आहुः ( वाच० )। प्रवृत्तिनिमित्तम्-[क] पदशक्यतावच्छेदकम् । यथा घटत्वं घटपदस्य प्रवृत्तिनिमित्तम् । एवम् शुक्लादिपदस्य शुक्लत्वम् पाचकादेः पाकः देवदत्तादेस्तत्तत्पिण्डादि प्रवृत्तिनिमित्तं भवति । प्रवृत्तिनिमित्तशब्दस्य व्युत्पत्तिः प्रवृत्तेः शब्दानामर्थबोधनशक्तेः निमित्तं प्रयोजकम् इति । तच्च शक्यतावच्छेदकं भवति इति ज्ञेयम् । तल्लक्षणं च प्रकारतया शक्तिग्रहविषयत्वम् (चि०)। अथवा वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वम् इति ( ग० शक्ति० )। [ख] निरवच्छिन्नविशेष्यतानिरूपितप्रकारतावत् इति शाब्दिका वदन्ति । प्रवेशः-पुत्रोद्वाहः प्रवेशाख्यः ( पु० चि० पृ० ४५० )। प्रवेशनम्-निष्क्रमणवदस्यार्थीनुसंधेयः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org