________________
न्यायकोशः।
अवतनम् । -१ प्रवृत्तिहेतुत्वम् ( गौ० वात्स्या० भा० १।१।१८ )। यथा प्रवर्तना
प्रवर्तनालक्षणा दोषाः ( गौ० १।१।१८ ) इत्यादौ । २ [क] यद्विषयकत्वेन ज्ञानस्य प्रवृत्तिजनकत्वं तत् । यथा स्वर्गकामो यजेत जलमाहरेतेत्यादौ लिङथों विधिः प्रवर्तनम् (वै० सा० ) ( कु० ५।६ )। अत्र यत्पदार्थ इष्टसाधनत्वम् । तथा च इष्टसाधनत्वस्य ज्ञानं प्रवृत्ति जनयतीतीष्टसाधनत्वं प्रवर्तनं भवति इति ज्ञेयम् ( वै० सा० द०)। मण्डनमिश्राणामपीदमेव मतम् इति विज्ञेयम् ( दि० गु० प्रयत्न-नि० पृ० २२६ )। [ख] भट्टपादास्तु प्रवर्तयितुः प्रवृत्त्यनुकूलव्यापारविशेषः इत्याहुः । स च चेतनस्याभिप्राय एव । अचेतनस्य तु वेदस्याभिधानामा कश्चिच्छब्दसमवेतः शाब्दभावनापरपर्यायो लिङ्त्वांशेनोच्यते इति ( दि० गु० विधिनि० पृ० २२६)। [ग] प्रवृत्त्यनुकूलो व्यापारः प्रवर्तना ( मी० न्या० पृ० ६९ )। प्रवर्तना च प्रवृत्तिजनकज्ञानविषयितावच्छेदिका इति वैयाकरणाः ( दि० गु० पृ० २२६ )। प्रवर्तना चतुर्विधा विधिनिमन्त्रणामन्त्रणाधीष्टभेदात् । तत्र विधिः प्रेरणम्। भृत्यादेनिकृष्टस्य प्रवर्तनम् । निमन्त्रणं नियोगकरणम्। आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा। अधीष्टः सत्कारपूर्वको व्यापारः ( सि० कौ० पृ० १८९ )। अत्रोक्तम् अस्ति
प्रवर्तनारूपमनुस्यूतं चतुर्वपि इति ( वाच० )। प्रवीचारः-भोगः । प्रवृत्तिः-१ (प्रयत्नः ) [क] उत्कटरागजन्यः प्रयत्नविशेषः ( वै०
वि० ३।१।१९ ).। लक्षणं तु प्रवृत्तित्वमेव । तच्च रागजन्यतावच्छेदकतया सिद्धो जातिविशेषः (गौ० वृ० १।१।१७ ) । चिकीर्षाजन्यतावच्छेदको जातिविशेषो वा ( मू० म० १ ) ( ल० व० पृ० १३७ )। चेष्टाजनकतावच्छेदकतया सिद्धो जातिविशेषो वा (श० प्र० श्लो० ९५ पृ० १३७) । प्रवृत्त्युत्पत्तावयं क्रमः। प्रथमतः फलज्ञानम् । ततः फलेच्छा । तत इष्टसाधनताज्ञानम् उपाये। तत उपायेच्छा । ततः प्रवृत्तिरुत्पद्यते इति (त० प्र० ख० ४ पृ० १०३ )। ७३ न्या० को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org