________________
न्यायकोशः ।
1
1
इदानींतनत्वं विशेषणं देयम् । तेन वक्ष्यमाणं सर्वं संगच्छते नानुपपत्ति । तथाहि । दोषदूषितचित्तो विषभक्षणादौ प्रवर्तते । इदानीं बलवदनिष्टाननुबन्धित्वज्ञानात् । तृप्तश्च भोजने न प्रवर्तते । इदानी - मिष्टसाधनत्वाज्ञानात् । भावियौवराज्ये बालस्य न प्रवृत्तिः । इदानीं कृतिसाध्यत्वाज्ञानात् ( दि० गु० पृ० २२५ ) । यथा वा जरनैयाकिमते इष्टसाधनताविषयकं कृतिसाध्यताज्ञानमेव प्रवर्तकम् । यथा वा प्राभाकरमते स्वविशेषणवत्ताप्रतिसंधानजन्यं कार्यताज्ञानं प्रवर्तकम् ( चि० ४ ) ( न्या० म० ४ पृ० २५-२७ ) ( दि० गु० पृ० २२२-२२४ ) । स्वविशेषणवत्तेत्यादेरर्थश्च स्वम् प्रवर्तमानः पुरुषः । तत्र विशेषणम् काम्ये हि यागादौ कामना । नित्ये संध्यावन्दनादौ तु विहित कालशौचादि । तद्वत्ता पक्षे तत्संबन्धः । तस्य प्रतिसंधानम् तत्संबन्धानम् । तज्ज्ञानमेव वा परामर्शात्मकम् । तेन जन्यं कार्यताज्ञानम् कृतिसाध्यताज्ञानम् अनुमित्यात्मकम् इति । तत्र स्वर्गकामो यजेत भोजनकामः पचेत इत्यादि काम्यम | अहरहः संध्यामुपासीतेत्यादि नित्यम् । तथाच काम्यस्थले काम्यसाधनाधनताज्ञानम् नित्यस्थले तु शौचादिज्ञानम् इत्यर्थः ( दि० गु० पृ० २२३ ) । अत्रानुमानप्रयोगः काम्ये पाको मत्कृतिसाध्यो मत्कृतिं विना असत्त्वे सति मदिष्टसाधनत्वात् इति ( दि० गु० पृ० २२३ ) । नित्ये तु अहमिदानींतन कृतिसाध्यसंध्यावन्दनः संध्यासमये शौचादिमत्त्वात पूर्वसंध्यायाममिव इति (चि० ४) । अत्र तदानींतनं स्वविशेषणम् इति वक्तव्यम् । तेन तृप्तश्च भोजने न प्रवर्तते । तदानीं कामनायाः पुरुषविशेषणत्वाभावात् । प्रतिसंधानं च 1 बलवदनिष्टाननुबन्धित्वाविषयकम् इति वक्तव्यम् । तेन मधुविषसंपृक्तान्नभोजने न प्रवृत्त्यापत्तिः । एवं च बलवदनिष्टाननुबन्धित्वविषयकं यत् स्वविशेषणवत्ताज्ञानम् तज्जन्यं कृतिसाध्यताज्ञानं प्रवर्तकं भवति इति निष्कृष्टोर्थः ( दि० गु० पृ० २०३ ) । यथा वा चोदनेति क्रियायाः ( नियोगस्य ) प्रवर्तकं ( ज्ञानद्वारा प्रवर्तकम् ) वचनम् इत्यादौ ( शावर भाष्यम् ) । अधिकं तु विधिशब्दे प्रवृत्तिशब्दे च सविस्तरं संपादयिष्यते इति तत् तत्र द्रष्टव्यम् ।
1
1
५७६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org