________________
न्यायकोशः।
५७३ च श्रुतिः। सा च धाता यथापूर्वमकल्पयत् ( ऋ० सं० १०।१९०१३) इति (सि० च० १ पृ. ९) ( त० दी० वायुनि० पृ० १०)। मीमांसकास्तु संसारप्रवाहस्य बीजाकुरन्यायेनानादित्वादनन्तत्वाच्च प्रलयसद्भावे मानाभावः इत्यूचुः (सि० च० १ पृ० ९) । इदानीं प्रलयक्रमः कथ्यते। साकारोपासनापरिवासितचेतसो यतयस्ते हिरण्यगर्भपदवीमनुप्राप्यापवृज्यन्ते इत्यागमात् ब्रह्मणो जीवभूतस्य ब्राह्मशतवर्षपर्याप्तस्यापवर्गसमये शरीरिणां विश्रान्त्यर्थमीश्वरस्य संजिहार्षा जायते । तदनन्तरं सर्वजीवगतादृष्टवृत्तिनिरोधः । यथा सुषुप्तौ कतिपयजीवानां युगपददृष्टवृत्तिनिरोधः तथा प्रलये सर्वेषामेव जीवानां युगपददृष्टवृनिनिरोधो भवति ( त० व० पृ० १२५)। ततः आत्मसंयोगतो देहाद्यारम्भकपरमाणुषु (प्रथमं पृथिवीपरमाणुषु ततो जलादिपरमाणुषु च ) कर्मोत्पद्यते। ततः परमाणुद्वयविभागः । ततः परमाणुद्वयसंयोगनाशः । ततो व्यणुकनाशः । ततरूपणुकनाशः । एवं चतुरणुकादिनाशक्रमेण महापृथिव्यादीनां नाशः । अत्र प्राञ्चः कचित्समवायिकारणनाशाद्रव्यनाशः यथा व्यणुकादिनाशः । कचिदसमवायिकारणनाशाद्रव्यनाशः यथा व्यणुकादिनाशः इत्यङ्गीचक्रुः । नव्यास्तु लाघवात्सर्वत्रासमवायिकारणनाशाद्रव्यनाशमङ्गीचक्रुः ( सि० च० १ पृ० ९) । इत्थं तेषां नाशः । पृथिव्युदकज्वलनपवनानामपि उदके सति पृथिव्याः ज्वलने सत्युदकस्य पवने सति ज्वलनस्य पश्चात्पवनस्य च विनाशः इति ( ५० मा० कालनि० पृ० ९३ ) (प्रशस्त० पृ० ६) (त० व० परि० ५ श्लो० ५-६ पृ० १२५ )। ततः प्रविभक्ताः परमाणवो दोधूयमाना अवतिष्ठन्ते । अत्रोच्यते दोधूयमानास्तिष्ठन्ति प्रलये परमाणवः इति ( भाष्य-कन्दली० ) (प० मा० कालनि० पृ० ९३ ) । अदृष्टसंस्कार विशिष्टा आत्मान आकाशादयश्चावतिष्ठन्ते तावन्तमेव कालम् ( शतवर्षम् )। अयमेव खण्डप्रलयः इति अवान्तरप्रलयः इति चोच्यते (प० मा० कालनि० पृ० ९३) (त० व० पृ० १२५)(त० दी० )। महाप्रलयानन्तरं न सृष्टिः । सर्वमुक्तौ सर्वोत्पत्तिनिमित्तस्यादृष्ट्रस्यापायातू
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org