________________
न्यायकोशः। भावेनाभावज्ञाने हेतुत्वाभावात् । इन्द्रियान्वयव्यतिरेकयोरधिकरणज्ञानार्थमुपक्षीणत्वेनान्यथासिद्धेः (वेदान्तपरि०) इति मायावादिनो वेदान्तिनः। अत्र नैयायिकाः तर्कितप्रतियोगिसत्त्वविरोध्यनुपलब्धिसहकृतेनेन्द्रियेणैवाभावज्ञानोपपत्तावनुपलब्धेः प्रमाणान्तरत्वासंभव इत्याहुः (त०दी०१८)। तदर्थश्च-तर्किता आपादिता प्रतियोगिनो घटादेः सत्त्वस्य सत्त्वप्रसक्तेविरोधिनी या उपलब्धिस्तत्प्रतियोगिकः अभावोनुपलब्धिस्तत्सहकृतेनेति (नील० १८)। तथा हि । घटोपलब्धौ घटाभावाग्रहात् प्रतियोग्यनुपलब्धिरभावप्रत्यक्षे इन्द्रियस्यैव सहकारिणी। न तु प्रमाणान्तरम् । इन्द्रियेणैवाभावप्रत्यक्षोपपत्तेः । अन्यथा अभावप्रत्यक्षस्येन्द्रियजन्यत्वानङ्गीकारे इह घटो नास्ति इति निर्णयानन्तरं इह घटाभावं साक्षात्करोमि इति साक्षात्कारविषयकप्रतीत्यनुपपत्तेः ( त० कौ० १७-१८ )। तथा च अनुपलब्धिसहकृतेन्द्रियग्राह्यत्वात् अनुपलब्धिग्राह्यः इत्युपचर्यते ( गौ० वृ० ५।१।३०)। अनुपलब्धिर्द्विविधा । अज्ञाता ज्ञाता च । तत्राज्ञातानुपलब्धिस्थले इन्द्रियेणैवाभावग्रहः । तावत्पर्यन्तमिन्द्रियव्यापारस्य विद्यमानत्वात् । अनुपलब्धिस्तु सहकारिमात्रम् । ज्ञातानुपलब्धिस्थले त्वनुमानम् इति नानुपलब्धिर्मानान्तरम् ( त० व० ९९)। यत्र त्वज्ञाता अनुपलब्धिः कारणं. तत्प्रत्यक्षम् । ज्ञातानुपलब्धिजन्याभावज्ञानस्यानुमानत्वम् ( कु० व्या० ३।३९)। अनुपलब्धिसमः-( जातिः) [क] तद्नुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः ( गौ० ५।१।२९)। प्रतिकूलतर्कदेशनाभासोयमिति ज्ञेयम् (गौ० वृ० ५।१।२९)। [ख] अनुपलब्धेरप्यनुपलब्धिस्तस्या अप्यनुपलब्धिरित्येवंरूपेण प्रत्यवस्थानमनुपलब्धिसमः । नैयायिकैस्तावच्छब्दानित्यत्वमेव साध्यते । यदि शब्दो नित्यः स्यादुवारणात्प्राक् कुतो नोपलभ्यते । न हि घटाद्यावरणकुड्यादिवत् शब्दस्यावरणमस्ति तदनुपलब्धेरिति । तत्रैवं जातिवादी प्रत्यवतिष्ठते । यद्यावरणानुपलब्धेरावरणाभावः सिध्यति तदा आवरणानुपलब्धेरप्यनुपलम्भादावरणानुपलब्धेरप्यभावः सिध्येत् । तथा चावरणानुपलब्धिप्रमाणक न्या. को०४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org