________________
न्यायकोशः। अनुपकारसमः– ( जातिः ). कार्यकारणभावस्योपकारनियतत्वेनवस्था ।
असिद्धदेशनाभासोयम् (गौ० वृ० ५।१।३७ )। इयं जातिः सूत्रानुक्ता वृत्तिकारेण वृत्तावुच्यते कार्यसम इत्यनेनोपलक्ष्यते चेति बोध्यम् । अनुपधा-श्रद्धामनःप्रसादादयः । एते धर्मजनकाः ( त० व० १३२)। अनुपपत्तिः–उपपत्त्यभावः । यथा पीनत्वान्यथानुपपत्तिरित्यादौ । अनुपलब्धिः-ज्ञानकरणाजन्याभावानुभवासाधारणकारणमनुपलब्धिरूपं प्रमाणम् । अस्यार्थः-ज्ञानरूपं यत्करणं तदजन्यो योभावानुभवो नामाभावज्ञानं तस्य यदसाधारणं कारणं तदनुपलब्धिरूपं प्रमाणं बोध्यमिति । अनुमानादिना जन्योत एवातीन्द्रियो योभावानुभवस्तस्य हेतुभूतेनुमानादावतिव्याप्तिवारणायाजन्यान्तम् । अदृष्टादौ साधारणकारणेतिव्याप्तिवारणायासाधारणेति । अभावस्मृत्यसाधारणहेतौ संस्कारेतिव्याप्तिवारणायानुभवेति विशेषणम् । एवं च घटादिज्ञानाभावो घटाद्यभावज्ञाने कारणमिति फलितोर्थः । तथा च घटाभाववति भूतले घटज्ञानाभावाद्धटाभावस्य ज्ञानं भवति । आत्मनि धर्माधर्माद्यनुपलब्धिसत्त्वेपि तदभावानिश्चयेन योग्यानुपलब्धेरेवाभावग्राहकत्वं बोध्यम् । अनुपलब्धेर्योग्यता च तर्कितप्रतियोगिसत्त्वप्रसञ्जितप्रतियोगिकत्वरूपा । अस्यार्थः-तर्कितं यत्प्रतियोगिसत्त्वं तेन प्रसञ्जित आपादितः प्रतियोगी यस्य तस्य भावस्तत्त्वमिति । तथा च स्फीतालोकवति भूतले यदि घटः स्यात्तदा घटोपलम्भः स्यादित्यापादनसंभवात्तादृशभूतले घटाभावोनुपलब्धिगम्यः । अन्धकारे तु तादृशापादनासंभवान्नानुपलब्धिगम्यता । अत एव स्तम्भे तादात्म्येन पिशाचसत्त्वे स्तम्भवत्प्रत्यक्षतापत्त्या तदभावोनुपलब्धिगम्यः स्तम्भः पिशाचो नेति । आत्मनि धर्माधर्मा दिसत्त्वेपि तस्यातीन्द्रियतया निरुक्तोपलम्भापादनासंभवान्न धर्माद्यभावस्यानुपलब्धिगम्यत्वम् । ननूक्तरीत्याधिकरण इन्द्रियसंनिकर्षस्थले अभावस्यानुपलब्धिगम्यत्वं तवानुमतम् । तत्र च क्लुप्तेन्द्रियमेवाभावाकारवृत्त्रावपि कारणम् । इन्द्रियान्वयव्यतिरेकानुरोधादिति चेत् न । प्रतियोग्यनुपलब्धेरभावग्रहे हेतुत्वेन क्लप्तत्वात्करणत्वमात्रस्य कल्पनात् । इन्द्रियस्य चाभावेन समं संनिकर्षा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org