________________
न्यायकोशः। अनुज्ञा—(लिङर्थो विधिः)[क] या निवारणाभावव्यञ्जिका पूजा इच्छा
वा सा (कु० व्या० ५)। [ख] निषेधाभावव्यक्षिकेच्छा (वै० सा० द०)। [ग] कर्तुरिष्टत्वे सति वक्त्रनुमतत्वम् । यथा पत्नी पचत्वित्यादौ लोडर्थोनुज्ञा ( श० प्र० १४५ )। अनुतन्त्रम्-वार्तिकम् । नित्याः शब्दार्थसंबन्धाः समाम्नाता महर्षिभिः ।
सूत्राणां सानुतत्राणां भाष्याणां च प्रणेतृभिः ॥ ( हरिः-वाक्यपदीये
१।२३)। अनुत्पत्तिसमः-( जातिः ) [क] प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः (गौ० ५।१।१२)। अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद्धटवदित्युक्ते अपर आह। प्रागुत्पत्तेरनुत्पन्ने शब्दे प्रयत्नानन्तरीयकत्वमनित्यत्वकारणं नास्ति । तदभावान्नित्यत्वं प्राप्तम् । नित्यस्य चोत्पत्तिर्नास्ति । अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमः ( वात्स्या० ५।१।१२)। यथा वा घटो न नित्यो जन्यैकत्वादित्यादौ कश्चिदाह । यदि जन्यैकत्वमनित्यत्वे प्रमाणं तदा घटे एकत्वोत्पत्तेः पूर्वं तदभावान्नित्यत्वम् । नित्यश्चेत्तनुत्पन्न एवेति (नील. ४४) । असिद्ध्यादिदेशनाभासोयमिति बोध्यम् ( गौ०वृ०५।१।१२)। [ख] साधनाङ्गपक्षहेतुदृष्टान्तानामुत्पत्तेः प्राग्घेत्वभाव इति अनुत्पत्त्या प्रत्यवस्थानम् । यथा घटो रूपवान्गन्धात्पटवदित्युक्ते घटोत्पत्तेर्गन्धोत्पत्तेश्व पूर्व हेत्वभावादसिद्धिः । पटे च गन्धोत्पत्तेः पूर्वं हेत्वभावेन दृष्टान्तासिद्धिः । एवमाद्यक्षणे रूपाभावाद्वाधश्च । अनुत्पत्त्या प्रत्यवस्थानस्य तत्रापि सत्त्वात् । उत्पत्तेः पूर्व हेत्वाद्यभावेन प्रत्यवस्थानस्यैव लक्षणत्वात् (गौ० वृ० ५।१।१२)। [ग] अनुत्पन्ने साधनांशे हेतुवृत्तेरभावतः । भागासिद्धिप्रसङ्गः स्यादनुत्पत्तिसमो मतः ॥ ( ता० र० २ श्लो० ११५)। अनुद्धर्षः—देशकालानुकूल्येन प्रियवस्त्वनुस्मरणेन वा जायमानं मनःशैथिल्यं
तुष्टिः । अयमेवोद्धर्षः । तद्विपर्ययोनुद्धर्षः ( सर्वद० सं० पृ० १२४)। अनुद्भूतत्वम्-शुक्लत्वादिव्याप्यो धर्मः ( सि० च० १ पृ० ४ ) (मु०१ पृ० ११९)। शिष्टं तु उद्भूतत्वशब्दव्याख्याने दृश्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org