________________
२२
स्यात् धूमो वह्निजन्यो न स्याद्वा इत्यापादनम् । अत्राप्रयोजकशङ्का चे पक्षे हेतुरस्तु साध्यं मास्तु इति पर्यवसिता । तत्रानिष्टप्रसङ्गश्च सिद्धव्याप्तिकयोर्धर्मयोर्व्याप्याङ्गीकारेणानिष्टव्यापकप्रसञ्जनम् (त० भा० ४३ ) । अनुकरणम् – सदृशक्रियादिकरणम् । तच्च गुणक्रियावयवादिभिः सदृशी
न्यायकोशः
: ।
करणम् । यथा चटचट इत्यनुकरणम् ( वाच० ) | अत्रेदं ज्ञेयम् । अनुकरणत्वं च शब्दमात्रतात्पर्य कोच्चारणविषयकत्वम् । यथा इतिशब्दसमभिव्याहारे गौरित्याह इत्यादौ । इदं चानुकरणं पदार्थविपर्यासकृद्भवति अर्थबोधकं न भवतीत्यर्थ ( ल० म० ) । अनुकल्पः – १ गौणकल्पः । यथा भार्याः कार्याः सजातीयाः सर्वेषां श्रेयस्यः स्युरिति मुख्यः कल्पः । ततोनुकल्पस्तु चतस्रो ब्राह्मणस्येत्यादिः ( पैठीनसिस्मृतिः ) । २ प्रतिनिधिः । यथा यवाद्यभावे गोधूमाः मध्वाद्यभावे गुडादयः ( वाच० ) ।
अनुकूलत्वम् — १ प्रयोजकत्वम् । यथा फलानुकूलव्यापार इत्यादौ ।
२ इच्छाविषयत्वम् । यथा निरुपाध्यनुकूलवेद्यं सुखमित्यादौ ( प०च० ) । अनुकूल वेदनीयम् [क] इष्टसाधनताज्ञानानधीनेच्छाविषयः । [ख]
इतरेच्छाधीनेच्छाविषयः ( न्या० बो० ४ ) । यथा सुखम् | अत्रेदं बोध्यम् । सुखानन्तरमिष्टफलान्तरस्याभावेन सुखेच्छा ( या गेच्छावत् ) नेष्टसाधनत्वप्रकारकज्ञानोत्पद्यते अपि तु सुखत्वप्रकारकज्ञानेनैवोत्पद्यते इति ( न्या० बो० ४ ) ।
अनुक्लृप्तिः — लक्षणम् । यथा कारणान्तरानुकृप्तिवैधम्र्म्याश्चेत्यादौ (वै० २।१।२२ ) ।
अनुगमः — अनुगत प्रवृत्तिनिमित्तम् (ग० अव० ) । यथा सर्वेषां घटानामनुगमो घटत्वम् ।
Jain Education International
अनुग्रहः - [क] अभीष्टसंपादनेच्छारूपः प्रसादः । [ख] अनिष्टनिवारणपूर्वकेष्टसाधनेच्छारूपाभ्युपपतिः । यथा निग्रहानुग्रहे शक्तः प्रभुरित्यभिधीयत इत्यादौ ( वाच० ) ।
For Personal & Private Use Only
www.jainelibrary.org