________________
न्यायकोशः। अनित्यत्वम्- [क] प्रतियोगितासंबन्धेन ध्वंसवत्त्वम् (मू० म० )। ध्वंसप्रतियोगित्वमित्यर्थः ( त० दी० )। यस्य ध्वंसः संभवति तत्त्वमिति फलितम् । इदं लक्षणं च प्रागभावानङ्गीकारपक्षे ध्वंसस्य नित्यत्वपक्षेपि च संगच्छत इति विज्ञेयम् । [ख] प्रागभावप्रतियोगित्वध्वंसप्रतियोगित्वान्यतरवत्त्वम् ( वाक्य० १) ( त० प्र० १)। यथा ध्वंसप्रागभावयोः घटपटादेश्वानित्यत्वम् । अनित्यसमः- ( जातिः) [क] साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः (गौ० ५।१।३२)। अनित्येन घटेन साधादनित्यः शब्द इति ब्रुवतोस्ति घटेनानित्येन सर्वभावानां साधर्म्यमिति सर्वस्यानित्यत्वमनिष्टं संपद्यते । सोयमनित्यत्वेन प्रत्यवस्थानादनित्यसम इति (वात्स्या० ५।१।३२ )। प्रतिकूलतर्कदेशनाभासोयमिति ज्ञेयम् ( गौ० वृ० ५।११३२ )। [ख] व्याप्तिमपुरस्कृत्य यत्किचिदृष्टान्तसाधर्म्यण सर्वस्य साध्यवत्त्वापादनम् । यथा-यदि दृष्टान्तघटसाधर्म्यात्कृतकत्वात्तेन सह तुल्वधर्मतोपपद्यत इत्यतः शब्दे अनित्यत्वं साध्यते तदा सर्वस्यैवानित्यत्वं स्यात् । सत्त्वादिरूपसाधर्म्यसंभवात् (गौ०वृ०५।१।३२)। [ग] अनित्यदृष्टान्तसाधर्म्यात्सर्वानित्यत्वप्रसङ्गोद्भावनम् । यथा यद्यनित्येन घटेन सादृश्यादनित्यः शब्द इत्युच्यते तदा येन केनचिद्धर्मेण सर्वस्यैव तत्सदृशत्वात्सर्वस्यानित्यत्वप्रसङ्ग इति ( नील० ४५)। [५] साधादिविवक्षायां सपक्षत्वप्रसञ्जनम् । साधनं त्वप्रतिवदन्स ह्यनित्यसमोदयः ( ता० र० प० २ श्लो० १२४ )। अनित्यसमासः-(समासः) स्वान्तर्गतनामसु विभक्तिमात्रप्रक्षेपेण यल्लभ्यस्यार्थस्य बोधः सः । यथा राजपुरुषपूर्वकायादिः । अत्र तल्लभ्यार्थस्य
राज्ञः पुरुषः पूर्व कायस्य इत्यादिवाक्यादपि प्रतीतेः ( श० प्र०४०)। अनिर्वाच्यम्-प्रत्येकं सदसत्त्वाभ्यां विचारपदवीं न यत् । गाहते तद्___ निर्वाच्यमाहुर्वेदान्तवादिनः ॥ ( सर्वद० सं० पृ० ४४७)। अनिष्टप्रसङ्गः-अनभिमतार्थापादनम् । यथा पर्वते धूमेन वह्निसाधने वादिना अप्रयोजकशङ्कायां कृतायां पर्वते यदि वह्निर्न स्यात्तर्हि धूमोपि न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org