________________
न्यायकोशः। प्रयोजकत्वम्-१ [क] परंपरया ( न तु साक्षात् ) कार्यजनकत्वम् ।
यथा काश्यां मरणान्मुक्तिरित्यादी मोक्षं प्रति काशीमरणस्य प्रयोजकत्वम्। अत्र मुक्तौ तत्त्वज्ञानस्यैव साक्षात्कारणत्वम् । काशीमरणस्य तु मुक्ता परंपरया कारणत्वम इनि तस्य प्रयोजकत्वं ज्ञेयम् ( त० प्र० १ मङ्गल०)। अत्रेदं तत्त्वम्। यस्यानुकूलतर्कोस्ति स एव स्यात्प्रयोजकः हेतुः इति । यस्यानुकूलतर्काभावः सोन्यथासिद्धः (ता०र० श्लो० ८७-८८)। अत्र वदन्ति कारणस्य यत् कारणम् तस्य प्रयोजकत्वम् इति । अत्र गुरुचरणाः प्राहुः तन्निष्ठान्यथासिद्धिभिन्नान्यथासिद्धिशून्यत्वे सति कार्याव्यवहितपूर्ववृत्तित्वम् इति । [ख ] स्वरूपसंबन्धविशेषः । यथा दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानां मध्ये यदुत्तरोत्तरम् तेषामपाये तत्पूर्वस्यापायादपवर्गः इत्यादौ पञ्चम्यर्थः । यथा वा दण्डाभावाद्भूटाभाव इत्यादी दण्डाद्यन्वयी पञ्चम्यर्थः प्रयोजकस्वम् (गौ० वृ० १।१।२ )। २ हेतुत्वम् । तच्च ज्ञापकज्ञानविषयत्वम् । यथा पर्वतो वह्निमान् धूमादित्यादी धूमस्य प्रयोजकत्वम (ग० व्यु० का० ३ पृ० ८७ )। ३ वैयाकरणास्तु हेतुसंज्ञककर्तृत्वम् । यथा तत्प्रयोजको हेतुश्च ( पा० सू० १।४।५५ ) इत्यादी इत्याहुः । यथा वा धर्मशास्त्रे प्रयोजयिता मन्ता कर्तेति स्वर्गनरकफलेषु कर्मसु भागिनः । यो भूय आरभते तस्मिन् फलविशेषः ( आपस्त० सू० २।११।२९।१-२ ) इत्यादौ प्रयोजकत्वम् । अत्र प्रयोजकस्य हन्तृत्वम् ( प्रा० वि०) निर्णीतं यथा निरन्तरव्यापाराव्यवधानेन वधनिष्पादकः कर्ता। यः कर्तारं कारयति स प्रयोजकः । सोपि द्विविधः। तत्रैकः स्वतोप्रवृत्तं पदाति वेतनादिना वधार्थं प्रवर्तयति । अपरन्तु स्वतः प्रवृत्तमेव मत्रोपायोपदेशादिना
प्रोत्साहयति इति ( वाच० )। प्रयोजनम् -[क] यमर्थमधिकृत्य प्रवर्तते तत् प्रयोजनम् (गौ०
१।१।२४ )। यमर्थमाप्तव्यं हातव्यं वाध्यवसाय तदाप्तिहानोपायमनुतिष्ठति प्रयोजनं तद्वेदितव्यम् । प्रवृत्तिहेतुत्वात् । इममर्थमाप्स्यामि हास्यामि वेति व्यवसायोर्थस्याधिकारः। एवं व्यवसीयमानोर्थोधिक्रियत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org