________________
५७०
न्यायकोशः। प्रयोगः इति वदन्ति । ४ यज्ञादि क्रियाकलापेतिकर्तव्यताबोधकानां
समुच्चयप्रतिपादकः पद्धत्यपरपर्यायो ग्रन्थः इति याज्ञिका आहुः । ' ५ उत्तमर्णेन स्वद्रव्यस्य वृद्ध्यर्थमधमर्णाय दानं प्रयोगः इति व्यवहारज्ञा वदन्ति । ६ भूतप्रेतायुच्चादनसाधनमत्रोच्चारणाद्यनुष्ठानम् इति तात्रिका
आहुः । ७ नायकयोर्मेलने क्रियाविशेषः इत्यालंकारिका आहुः । । ८ शस्त्रादिमोचनम् इति योद्धारो वदन्ति । प्रयोगविधिः-(विधिः) [क] प्रयोगाविलम्बबोधको विधिविशेषः । ... स च प्रयोगविधिः प्रयाजाद्यङ्गजातवाक्यैकवाक्यतामापन्नो दर्शपूर्ण
मासाभ्यां स्वर्गकामो यजेत इत्यादिप्रधानविधिरेवोक्तवक्ष्यमाणविधित्रय। मेलनरूपश्चतुर्थोयं विधिः न तु विध्यन्तरम् (लौ भा० टी० पृ०३०)।
[ख] अङ्गानां क्रमबोधको विधिः ( लौ० भा० पृ० ३०-३१ )। अत्र क्रमो नाम विततिविशेषः । पौर्वापर्यरूपो वा। तत्र क्रमे षट् प्रमाणानि
श्रुति-अर्थ-पाठ-स्थान-मुख्य-प्रवृत्ति-इत्याख्यानि इति ( लौ० भा० पृ० ... ३१) (म० प्र० ४ पृ० ६२ )। अत्र उत्तरोत्तरमपेक्ष्य पूर्वपूर्व
बलीयः इति विज्ञेयम् । टीकायां चेत्थमुक्तम् । वितननं वितानो वा विततिः । तनु विस्तारे इति धातोर्भावे क्तिः । तथा च बहुभिः कर्तृभियुगपत् कृतानामपि पदार्थानां वितानविशेषो भवत्येव न तु क्रमव्यवहारः। तथाच तत्र प्रथमलक्षणस्यातिव्याप्तिः इत्यरुच्या लक्षणान्तरमाह पौर्वापर्येति ( लौ० भा० टी० पृ० ३१ )। [ग] अनुष्ठीयमानपदार्थानां क्रमबोधको विधिः । यथा वेदं कृत्वा वेदिं करोति इत्यादि । अत्र क्रमस्तु अव्यवहितोत्तरत्वम् ( भाट्टदी० ) । अथवा अव्यवहितपौर्वापर्यम् । स च प्रयोगविधिः अङ्गविध्येकवाक्यतापन्नः प्रधानविधिरेव । तेन क्रमेण ( केवलक्रमेण ) पदार्थानामनुष्ठानात् (म० प्र० ४ पृ० ३२) (लौ० भा० ३१-३३ )। यथा अग्निहोत्रं जुहोति यवागू पचति इत्यादि । अत्र पाठक्रमादर्थक्रमो बलीयान् इति पाठक्रमं परित्यज्यार्थक्रम एवाश्रीयते । इत्थं च पूर्व यवागूपाकः ततो यवाग्वाग्निहोत्रहोमः ( म०प्र० पृ० ६२ ) ( लौ० भा० ३३)।[घ] प्रयोगप्राशुभावबोधको विधिः प्रयोगविधिः ( मी० न्या० पृ० ३७ )।
...
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org