________________
न्यायकोशः। शिष्टं तु जीवनयोनिशब्दव्याख्यानावसरे संपादितम् । इच्छाद्वेषपूर्वकस्तु हिताहितप्राप्तिपरिहारसमर्थस्य व्यापारस्य हेतुः शरीरविधारकश्च आत्ममनसोः संयोगादिच्छापेक्षाहेषापेक्षाद्वा उत्पद्यते (प्रशस्त० २ पृ० ३३)। २ फलार्थिभिः प्रारब्धस्य कर्मणोवस्थापञ्चकान्तर्गतोवस्थाविशेषः प्रयत्नः इति साहित्यशास्त्रज्ञा आहुः (वाच० )। तदुक्तम् प्रयत्नस्तु फलावाप्त्यै व्यापारोतित्वरान्वितः ( सा. द. परि० ६ श्लो० ३२६ ) इति ।
३ प्रयासः इति काव्यज्ञा आहुः । प्रयुक्तत्वम्-१ प्रयोज्यत्वम् । तच्च कारणाभावात्कार्याभावः इति प्रतीति
साक्षिकः स्वरूपसंबन्धविशेषः । यथा दण्डाभावाद्भूटाभाव इत्यादौ घटाभावाद्यन्वयि पञ्चम्यर्थः प्रयुक्तत्वम् (मू० म० १) (गौ० वृ० १११२) (ग० हेत्वा० साधा० पृ० २४)। यथा वा पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा (त० सं०) इत्यादौ प्रयुक्तत्वम् ( नील० ४ पृ० ३२) । २ कचित्तु व्यापकत्वम् । यथा दीधितिहेत्वाभाससामान्यनिरुक्तौ अत्र वदन्ति इति कल्पे यद्विषयकनिश्चयस्य विरोधिविषयिताप्रयुक्तः तदुत्तरमनुमिता द्वयोर्व्यतिरेकः इति हेत्वाभाससामान्यलक्षणस्य निर्वह्निर्वह्निमान् इत्यादौ बाधाद्यव्याप्त्यापत्तिवारणार्थं प्रथमयत्तुकारेण प्रयुक्तपदस्य व्यापकत्ववान इत्यर्थः स्वीकृतः। एवं च प्रथमयत्तुकारमते विरोधिविषयकयद्विषयकनिश्चयाव्यवहितोत्तरानुमितित्वव्यापकः प्रकृतपक्षे प्रकृतसाध्यवैशिष्ट्यावगाहित्व साध्यव्याप्यहेतुवैशिष्ट्यावगाहित्व एतदुभयाभावः तत्त्वम् हेतुदोषत्वम् इति पर्यवसितोर्थः (ग० २ हेत्वा० सामा० पृ० २७ )। ३ प्रयोगकर्मत्वम् । यथा शब्दः प्रयुक्तः वाक्यं प्रयुक्तम् इत्यादौ शब्दवाक्ययोः प्रयुक्तत्वम् । ४ प्रेरितत्वम् इति
काव्यज्ञा आहुः। प्रयोगः-१ अनुमानम् (वै० उ० ७१।७) । २ उदाहरणम् ।
३ शब्दोच्चारणम् । तत्र नैयायिकाः अनुमानाङ्गपञ्चावयववाक्योच्चारणम् यथा अत्रायं प्रयोगः इत्यादौ पर्वतो वह्निमान् धूमात् इत्यादिप्रयोगः इत्याहुः । शाब्दिकास्तु शब्दानां यथायोगं समभिव्याहृतत्वेनोच्चारणं ७२ न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org