________________
५६८
न्यायकोशः। प्रमितिः-प्रमादवदस्यार्थीनुसंधेयः ( कु० टी० ४।५ )। प्रमेयम्-१ [क] योर्थः तत्त्वतः प्रमीयते तत्प्रमेयम् (वात्स्या०१।१।१
प्रस्तावना )। यथा घटपटादि सर्वं जगत्प्रमेयम् । अत्र प्रमेयत्वं च - ईश्वरीयप्रमाविषयत्वम् ( त० दी० २ )। तञ्च केवलान्वयि । सर्वस्यापि
जगत ईश्वरज्ञानरूपप्रमाविषयत्वात् ( न्या० म०)। सामान्यतः प्रमाविषयत्वं वा प्रमेयत्वम् । मायावादिमते विशुद्धं चैतन्यमेव प्रमेयम् । [ख] संसारहेतुमिथ्याज्ञानविषयः मोक्षहेतुधींविषयो वा । यथा आत्म
शरीरादि प्रमेयम् । न्यायनये द्वादशविधं प्रमेयम् । आत्मा शरीरम् : इन्द्रियम् अर्थः बुद्धिः मनः प्रवृत्तिः दोषः प्रेत्यभावः फलम् दुःखम्
अपवर्गश्च ( गौ० १।१।९ ) इति । अत्र प्रमेयत्वं च तत्त्वज्ञाननियामकतावच्छेदकम् इति ज्ञेयम् । २ परिच्छेद्यम् । ३ अवधारणविषयः - ( अवधार्यम् ) इति काव्यज्ञा आहुः । प्रयत्नः- ( गुणः ) १ [क] प्रयत्नः संरम्भः उत्साहः इति पर्यायः
(प्रशस्त० २ पृ० ३३)। स च मनोग्राह्यः (भा० ५० श्लो० ५८) निराकार: सविषयकः आत्ममात्रधर्मश्च इति विज्ञेयम् । प्रयत्नलक्षणं च कृतित्वजातिमत्त्वम् ( वाक्य० गु०. पृ० २१ )। अथवा संस्कारेच्छाभिन्नत्वे सति संबन्धानवच्छिन्नप्रकारताकत्वम् (ल० ब०)। [ख] प्रयत्नत्वसामान्यवान् उत्साहरूपः (त० को०)। तथा चोक्तम् । प्रयत्नस्त्वात्मधर्मः स्यादुत्साहो भावना च सः (ता० र० परि० १ श्लो० ४६ ) इति । स च कृतिरित्युच्यते ( त० सं० )। [ग] प्रयत्नव्यवहारासाधारणं कारणम् (प्र० प्र० १७ )। यथा पचतीत्यादौ तिबर्थः । प्रयत्नव्यवहारश्च अहं यते स यतते इत्यादिव्यवहारः। स त्रिविधः प्रवृत्तिः निवृत्तिः जीवनयोनियत्नश्चेति (भा० ५० श्लो०१५०) ( वाक्य० गु० पृ० २१) । प्रकारान्तरेण स प्रयत्नः द्विविधः जीवन
पूर्वकः इच्छाद्वेषपूर्वकश्च । तत्र जीवनपूर्वकः सुप्तस्य प्राणापानसंतान... प्रेरकः प्रबोधकाले चान्तकरणस्येन्द्रियान्तरप्राप्तिहेतुः । अस्य जीवनसंज्ञक
स्यात्ममनसोः संयोगाद्धर्माधर्मापेक्षादुत्पत्तिः (प्रशस्त ० २ पृ० ३३) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org