________________
५६७
न्यायकोशः। श्वरमं स्वतः ॥ प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः । प्रमाणत्वं स्वतः प्राहुः परतश्चाप्रमाणताम् ॥ (सर्व० पृ० २७९ जैमि० ) इति । एवम् नैयायिकमते अप्रमात्वमपि परत एव अनुमानादिना गृह्यते उत्पद्यते च (चि० १ प्रामा० ) ( त० दी० पृ० ३७ ) ( सि० च० ) इति । अत्रानुमानादिनैवाप्रमात्वं गृह्यते ( अनुमीयते )। तत्र हेतुः पुरोवर्तिनि प्रकाराभावस्य व्यवसायेनाविषयीकरणात् । तथा च प्रत्यासत्तेरभावादप्रमात्वस्यानुव्यवसायेन ग्रहणं न भवति इति भावः । अत्रानुमानप्रयोगस्त्वित्थम् । इदं ज्ञानमप्रमा विसंवादिप्रवृत्तिजनकत्वात् यन्नैवं तन्नैवं यथा प्रमा (नील० प्रामा० पृ० ३७ ) इति । एवं च अनुमानादिग्राह्यत्वादप्रमाया ज्ञप्तौ परतस्त्वम् इति बोध्यम् । तथा अप्रमायाः पित्तमण्डूकवसाञ्जनचाकचक्यदूरत्वादिदोषजन्यत्वादुत्पत्तावपि परतस्त्वमिति बोध्यम् ( सि० च० )। अत्र पित्तदूरत्वादिदोषोननुगतोप्यन्वयव्यतिरेकाभ्यां हेतुर्भवति इति विज्ञेयम् (म०प्र० प्रामा०
पृ० ७३ )। प्रमादः– ( दोषः ) १ पूर्व कर्तव्यतया निश्चितेप्यकर्तव्यताधीः । एवं
वैपरीत्येपि ( गौ० वृ० ४।१।३ ) । सा च पूर्वमकर्तव्यतया निश्चितेपि . कर्तव्यताधीः । यथा प्रमादात्कुर्वतां कर्म इत्यादौ । २ कर्तव्ये अकर्तव्य
त्वधिया ततो निवृत्तिः अकर्तव्ये कर्तव्यत्वधिया तत्र प्रवृत्ति प्रमादः इति केचिदाहुः ( वाच०)। ३ अनवधानता इति काव्यज्ञा आहुः ( अमरः.)। ४ पञ्चसमितिगुप्तिष्वनुत्साहः ( सर्व० सं० पृ० ७६ आई० )। समाधिसाधनानामभावनं प्रमादः ( सर्व० सं० पृ० ३५५
पातञ्ज०)। प्रमितत्वम्-प्रमाविषयत्वम् । यथा घटे स घटः अस्ति इति ज्ञानविषयत्वम् । यथा वा स्थावरजङ्गमात्मकस्य सर्वस्य जगतः प्रमितत्वम् । कचित् स्वविशेष्यकप्रमाप्रकारत्वम् ( ग० बाध० )। २ परिमितत्वम् । यथा प्रमितास्तण्डुलाः इत्यादौ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org