________________
न्यायकोशः ।.
करादिमति करादिमद्विशेष्यकत्वे सति पुरुषत्वप्रकारकज्ञानत्वात् संप्रतिपन्नवत् द्वितीयानुव्यवसायेन गृहीतप्रामाण्यकपुरुषज्ञानवत् इति । यद्वा यन्न पुरुषत्ववति पुरुषत्वज्ञानम् तन्न करादिमति पुरुषत्वज्ञानम् । यथा स्थानी पुरुषत्वभ्रमः इति व्यतिरेकी ( न्या० म० पृ० ३५ ) ( त० प्र० ख०४ पृ० १३२ ) ( म०प्र० ४ पृ० ७१ ) । अत्र च परतस्त्वं द्विविधम् । ज्ञप्तौ परतस्त्वम् उत्पत्तौ परतस्त्वम् । अत्र प्रामाण्यस्य परत उत्पत्तिकत्वं च ज्ञानसाक्षाद्विभाजकोपाध्यवच्छिन्नकार्यताप्रतियोगि ककारणतानिरूपितकार्यतावत्त्वम् (मू० म० प्रामा० ) । आद्यं यथा प्रथमजलज्ञानानन्तरं प्रवृत्तौ सत्यां जललाभे सति पूर्वोत्पन्नज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वात् यत्प्रमा न भवति तत्समर्थप्रवृत्तिजनकं न भवति यथा अप्रमा (जलभ्रमः ) इति व्यतिरेकिणानुमानेनानभ्यासद्शापन्नज्ञाने प्रमात्वं निश्चीयते इति । अनभ्यासदशापन्न प्राथमिकजलादिज्ञाने जाते तत्र प्रामाण्यसंशये सत्यपि पुरुषः प्रवर्तते इति विशेषोत्र द्रष्टव्यः ( त० कौ० पृ० १८ ) । अत्रेदं बोध्यम् । प्रथमं जलजलत्वयोर्निर्विकल्पकम् । ततः इदं जलम् इति विशिष्टज्ञानम् । तत इच्छा । ततः प्रवृत्तिः । तदनन्तरं जलनाभः ( सि० च० ) इति । अभ्यासदशापन्नज्ञानेषु द्वितीयतृतीयादिजलादिज्ञानेषु तु प्रवृत्तेः पूर्वमप्यन्वयव्यतिरेकिणापि पूर्वज्ञानदृष्टान्तेन तत्सजातीयत्व लिङ्गेन प्रामाण्यमवधार्यते । तद्यथा द्वितीयादिजलज्ञानं प्रमा समर्थप्रवृत्तिजनकजातीयत्त्रादाद्यजलज्ञानवत् ( त० कौ० पृ० १८ ) ( नील० ) इति । द्वितीयं उत्पत्तौ परतस्त्वं तु प्रमाया गुणजन्यत्वरूपम् । तद्यथा प्रत्यक्षप्रमायां विशेषणवद्विशेष्यसंनिकर्षात्मक गुणजन्यत्वम् । अथवा भूयोवयवावच्छेदेनेन्द्रियसंनिकर्षात्मकगुणजन्यत्वम् । एवमनुमितौ व्यापकवत व्याप्यवत्ताज्ञानरूपगुणजन्यत्वम् उपमितौ यथार्थसादृश्यज्ञानात्मक गुणजन्यत्वम् शाब्दबोधे च यथार्थयोग्यताज्ञानरूपगुणजन्यत्वं यथार्थवक्तवाक्यार्थज्ञानरूपगुणजन्यत्वं वा उत्पत्ती परतस्त्वम् इत्याद्यूहनीयम् (नील० पृ० ३७ ) ( म०प्र० ४ पृ० ७३ ) । अत्रायं संग्रहः । प्रमाणत्वाप्रमाणत्वे स्वतः सांख्याः समाश्रिताः । नैयायिकास्ते परतः सौगता
५६६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org