________________
न्यायकोशः।
५६५ ततः घटमहं जानामि इत्यनुव्यवसायः । ततो व्यवसायस्य नष्टत्वात् पुनः घटोयम् इति व्यवसायः। ततश्च घटमहं जानामि इत्यनुव्यवसायः । तेन प्रामाण्यं गृह्यते इति ( त० प्र० ख० ४ पृ० १३१ )। नैयायिकानामयं भावः । प्रामाण्यस्य स्वतो आहे अनभ्यासदशोत्पन्नज्ञाने तत्संशयो न स्यात् । ज्ञानग्रहे प्रामाण्यनिश्चयात् । अनिश्चये वा न स्वतः प्रामाण्यग्रहः । ज्ञानाग्रहे धर्मिज्ञानाभावात् न संशयः। अनभ्यासदशोत्पन्नम् प्रामाण्यव्याप्यवत्तानिश्वयकालीनम् । तत्संशयः इदं प्रमा न वा इति प्रामाण्यसंशयः (मू० म० १ प्रामा० पृ० १८९)। अयं भावः । न च संशयस्थले ज्ञानग्रहोपि ( प्रामाण्याश्रयज्ञानस्य विशेष्यस्य ग्रह एव) नास्ति इति वाच्यम् । ज्ञानाग्रहे ज्ञानधर्मिकप्रामाण्यतदभावकोटिकसंशयानुपपत्तेः । संशये धर्मिज्ञानस्य हेतृत्वात् (चि० १ प्रा० पृ० १८८-१८९) ( त० कौ० पृ० १८ ) इति । यदि मीमांसकाः प्रमात्वस्य स्वतो ग्राह्यत्वं स्वीकुर्युस्तदा अनभ्यासदशायां ( प्राथमिकजलज्ञानग्रहोत्तरदशायाम् ) तन्मते प्रामाण्यसंशयानुपपत्तिः । तथाहि । ज्ञानग्रहानन्तरम् किंचिज्जातं मे यज्जलज्ञानम् तत् प्रमा न वा इति प्रामाण्यसंशयो लोकेनुभवसिद्धः । स न स्यात् । तन्मते ज्ञानग्रहे प्रमात्वस्यापि निश्चितत्वेन तत्संशयायोगात् इति । अतः परत एव. अनुमानादिना प्रमात्वमवश्यं ग्राह्यम् ( त० कौ० पृ. १८) इति । परतस्त्वं च ज्ञानसामान्यग्राहकातिरिक्तग्राह्यत्वम् । ईदृशपरतस्त्वं ज्ञप्ती कचित् द्वितीयानुव्यवसायमादाय । कचित्तु अनुमानमादाय बोध्यम् । तथाहि । परंतो ग्रहणे .प्रमाणमनुमानम् । तच्च विमता प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वादप्रमावत् ( सर्व० पृ० २८२ जैमि० ) इति । तथा च द्वितीयानुव्यवसायेन क्वचित्लामाण्यग्रहे घ प्रामाण्यरूपसाध्यप्रसिद्धावनुमानमपि प्रामाण्यग्राहकम् । तद्यथा इदं पुरुषज्ञानम् प्रमा करादिमपि पुरुषज्ञानत्वात् संप्रतिपन्नवत् । यद्वा यन्नैवं तन्नैवम् इति व्यतिरेकी। तदर्थश्च इदम् द्वितीयानुमानेनागृहीतप्रामाण्यकम् पुरुषज्ञानं प्रमा ( पुरुषत्ववद्विशेष्यकत्वे सति पुरुषत्वप्रकारकत्ववत् )
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org