________________
५६४
न्यायकोशः। स्वप्रकाशत्वरूपज्ञानस्वभावेन यथा तेनैव ज्ञानेन तदेव सिद्ध्यति तथा तद्गतं तत्प्रकारकत्वरूपं प्रामाण्यमपि सिद्ध्यति इत्यर्थः ( म० प्र० पृ० ६८)। भट्टास्तु ज्ञानं तावत्स्वविषये ज्ञातताख्यं फलं जनयति इति निरूढम् । तयैवानुमेयं ज्ञानम् । तथा च ज्ञाततया ज्ञानानुमितिर्जायमाना प्रामाण्यमपि विषयीकरोति इत्याहुः । स्वविषये इत्यस्य ज्ञानविषये घटादावित्यर्थः । ज्ञातो घटः इति प्रतीतेख़तताख्यं फलं जन्यते इति बोध्यम् । अस्यां प्रतीतौ ज्ञानं निमित्तकारणम् । घटादिकं समवायिकारणम्। असमवायिकारणं तु नापेक्षितम् । भावकार्यस्य सासमवायिकारणकत्वम् । इति नियमस्य भट्टैरनङ्गीकरात् इति । ज्ञानं न प्रत्यक्षम् । अनवस्थापत्तेः । किंतु अनुमितिग्राह्यमेव इति भट्टमतम् ( त० प्र० ख० ४ पृ० १२९)। अनुमानं तु घटो ज्ञानवान् ज्ञाततावत्त्वात् इति (म० प्र० पृ० ६७ )। तदर्थश्च ज्ञाततया घटो ज्ञानवान् ज्ञाततावत्त्वात् इत्यादिना ज्ञानविधेयकानुमितिर्जायमाना घटत्ववति घटत्वप्रकारकत्वरूपं प्रामाण्यमपि विषयीकरोति ( त० प्र० ख० ४ मृ० १३० ) इति । घटो घटत्वप्रकारकज्ञानविशेष्यः घटत्वप्रकारकज्ञाततावत्त्वात् इत्यनेन घटे घटत्वप्रकारकज्ञानविशेष्यत्वानुमितिर्जायमाना घटविशेष्यकघटत्वप्रकारकत्वं ज्ञानेपि विषयीकरोति । तयोः समानवित्तिवेद्यत्वादिति भावः (म०प्र० पृ० ६७ ) । मुरारिमिश्रास्तु तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वं प्रामाण्यम् । तच्च घटमहं जानामि इति प्रथमानुव्यवसायेनैव गृह्यते । तथाहि घटत्ववांस्तावत् घटोयम् इति व्यवसायेनोपनीतः ( मनसा सह संनिधापितः ) । अतः तद्वद्विशेष्यकता संसर्गरूपा ज्ञानेन मनसा गृह्यते । विशेषणस्य पूर्वमुपस्थितत्वात् । एवम् घटत्वमपि व्यवसायेनैवोपनीतम् । अतः तत्प्रकारकता विषयतावत्सुग्रहा इत्युभयस्यैकग्रहेण गृहीतं प्रामाण्यम् इत्याहुः ( न्या० म० ४ पृ० ३३ -३४ ) ( म० प्र० )। नैयायिकास्तु परतः अनुमानादिना ज्ञानस्य प्रामाण्यं ग्राह्यम् उत्पाद्यं चेति
वदन्ति । अत्रायमर्थः । द्वितीयानुव्यवसायेन प्रामाण्यं गृह्यते । तथाहि . प्रथमं अयं घटः इति ज्ञानम् । ततः ज्ञानज्ञानत्वे इति निर्विकल्पकम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org