________________
न्यायकोशः।
५६३ पृ०३४)। अत्रायमाशयः । नैयायिका अपि अनुव्यवसाये विशेष्यत्वप्रकारत्वयोर्भानमङ्गीकुर्वन्ति । पुरोवर्तिनं घटत्वेन जानामि इत्याकारकस्यैवानुव्यवसायस्य तैरङ्गीकारात् । परंतु पुरोवर्तिनि घटादौ घटत्वादिरूपप्रकारसंबन्धभानं नाङ्गीकुर्वन्ति। अतस्तत्र प्रकारसंबन्धभानस्य व्यवस्थापने किमपि नावशिष्टम् इति प्रामाण्यस्य भानं न सिध्यति । अनुपस्थितयोरपि विशेष्यत्वप्रकारत्वयोर्भानस्य सर्वसंमतत्वात् इति ( नील० प्रामा० पृ० ३६)। प्राभाकराश्चेत्थमाहुः । ज्ञानस्य प्रत्यक्षत्वमेव । प्रमात्वं स्वत एव गृह्यते । प्रमात्वाश्रयीभूतं यत् ज्ञानम् तत् यया कारणसामग्र्या आत्ममन:संनिकर्षः इन्द्रियविषयसंनिकर्षः इत्यादिकया जन्यते तद्वृत्तिप्रमात्वमपि तयैव सामग्र्या गृह्यते । तथाच स्वप्रकाशमेव ज्ञानम् । अत्र व्युत्पत्तिः । स्वं प्रकाशते भासते यत्र तत् इति (त० प्र० ख० ४ पृ० १२८ )। यथा न्यायनये घटज्ञानं घटविषयकत्वाद्भूटप्रकाशम् । यथा वा ईश्वरज्ञानं स्वविषयकत्वात्स्वप्रकाशमपि ( अन्यथा तज्ज्ञानस्य सर्वविषयकत्वं न स्यात् ) तथा गुरुमते सर्वमेव ज्ञानं स्वविषयकत्वात्स्वप्रकाशमेव (म० प्र० पृ० ६७ )। तथा च अयं घटः इति ज्ञानम् यथा घटादिकं विषयीकरोति तथा स्वात्मानं स्वस्वरूपम् स्वस्याधिकरणम् आत्मानं च विषयीकरोति । ज्ञानस्य घटादिविषय स्वस्वरूप आत्मरूपाधिकरण एतत्रयविषयत्वादेव सर्वमेव ज्ञानम् घटमहं जानामि इत्याकारकमेव । इत्थं सर्वस्य व्यवसायस्यानुव्यवसायात्मकत्वे च ज्ञानस्य मितिमातृमेयविषयकत्वात् त्रिपुटीप्रत्यक्षता इति प्रवादः। तदर्थश्च ज्ञानस्य सर्वस्य ज्ञानस्य । मितिः ज्ञानम् । माता आत्मा। मेयम् घटादि । तद्विषयकत्वात् मितिमातृमेयानां ज्ञानस्यैकसामग्रीकत्वात् । त्रिपुटी त्रयाणां पुटानां समाहारत्रिपुटी । मितिमातृमेयविषया तत्प्रत्यक्षता इति (त० प्र० ख० ४ पृ० १२८-१२९ )। तथा च स्वप्रकाशमहिम्ना स्वमिव स्वप्रामाण्यमपि सिद्ध्यति (विषयीभवति ) इत्याहुः ( न्या० म० ४ पृ० ३३-३४) ( त० प्र० ख० ४ पृ० १२८ ) ( म०प्र० पृ० ६९ )। स्वस्मिन्स्वविषयकत्वं स्वीक्रियते इति भावः ( त० प्र० ख० ४ पृ० १३०)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org