________________
५६२
न्यायकोशः।
प्रामाण्यमपि जायत इति । ज्ञप्तौ स्वतस्त्वं नाम ज्ञानग्राहकमात्रग्राह्यत्वम् । येन ज्ञानं गृह्यते तेनैव तद्गत प्रामाण्यमपि गृह्यत इति । नैयायिकमते परतस्त्वमपि द्विविधम् उत्पत्ती ज्ञप्ती चेति । तत्र उत्पत्तौ परतस्त्वं नाम ज्ञानकारणातिरिक्तकारणजन्यत्वम् । ज्ञप्तौ परतस्त्वं नाम ज्ञानग्राहकातिरिक्तग्राह्यत्वम् इति वस्तुस्थितिः (प्र० च० परि० १ पृ० ४५ )। मीमांसकाश्च त्रयो मिथो विप्रतिपन्नाः । प्रभाकरापरनामका गुरवः तुताताख्या भट्टाः मुरारिनामका मिश्राश्चेति । तत्र गुरूणां मतम् ज्ञानस्य स्वप्रकाशरूपत्वात्तज्ज्ञानप्रामाण्यं तेनैव गृह्यते इति । भट्टानां मतं च ज्ञानमतीन्द्रियम्। ज्ञानजन्या ज्ञातता प्रत्यक्षा। तया च ज्ञानमनुमीयते। अत्रानुमानं तु घटो घटत्ववद्विशेष्यकघटत्वप्रकारकज्ञानविषयो घटत्वप्रकारकज्ञाततावत्त्वात् यन्नैवं तन्नैवम् इति (नील० प्रामा० पृ० ३५) । मुरारिमिश्रमतं तु अनुव्यवसायेन ज्ञानं गृह्यते इति । सर्वेषामपि मते तज्ज्ञानविषयकज्ञानेन तज्ज्ञानप्रामाण्यं गृह्यते। विषयनिरूप्यं हि ज्ञानम् । अतो ज्ञानवित्तिवेद्यो विषयः (मु० गु० ) इति । तदर्थश्च विषयनिरूप्यं विषयज्ञानजन्यसाक्षात्कारविषयीभूतम् इति (म० प्र० पृ० ६९)। इदमत्र तत्त्वम् । गुरुमते घटत्वेन घटमहं जानामि इत्याद्याकारकं व्यवसायात्मकमेव सर्व ज्ञानम्। तच्च स्वप्रकाशम् । मितिमातृमेयैतत्रयविषयत्वात्रिपुटीत्युच्यते । स्वप्रकाशसामर्थ्यादेव स्वात्मानमिव स्ववृत्तिप्रामाण्यं स्वत एव गृह्णाति इति । भट्टमते अयं घटः इति ज्ञानानन्तरं घटे ज्ञाततानामकं फलं भवति । ततो ज्ञातो घटः इति प्रत्यक्षम् । पश्चात्तया ज्ञाततया ज्ञानमात्रस्यातीन्द्रियत्वाज्ज्ञानं तन्निष्ठप्रामाण्यं चानुमीयते इति । मिश्रमते च अयं घटः इत्याकारकज्ञानानन्तरं घटत्वेन घटमहं जानामि इति ज्ञानविषयकलौकिकमानसमुत्पद्यते। तेन प्रामाण्यस्य ग्रहणम् । घटमहं जानामि इत्यनुव्यवसायस्तु घटं घटत्वं समवायं च विषयीकुर्वन्नात्मनि प्रकारीभूतघटमात्मानं तत्संबन्धीभूतव्यवसायं विषयीकरोति । एवं पुरोवृत्तिप्रकारसंबन्धस्यैव ( पुरोवर्तिनि यः प्रकारसंन्बधः तद्धटितस्यैव ) प्रमात्वपदार्थत्वेन स्वत एव प्रामाण्यं गृह्णाति ( नील० ) (सि० च०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org