________________
न्यायकोशः ।
1
।
५६१ मायावादिनो वेदान्तिनस्तु दोषाभावे सति यावत्स्वाश्रयग्राहक सामग्रीग्राह्यत्वं स्वतस्त्वम् । यद्वा यावत्स्वाश्रयग्राहकग्राह्ययोग्यत्वं स्वतस्त्वम् इत्याहुः । एतन्मतेपि प्रमात्वं स्वत एवोत्पद्यते ज्ञायते च । तथाहि । प्रमात्वम् ज्ञानसामान्य सामग्री प्रयोज्यम् । न त्वधिकं गुणमपेक्षते । प्रमामात्रेनुगतगुणाभावात् । नापि प्रत्यक्षप्रमायां भूयोवयवेन्द्रियसंनिकर्षः । रूपादिप्रत्यक्षे आत्मप्रत्यक्षे च तदभावात् । सत्यपि तस्मिन् पीतः शङ्खः इति प्रत्यक्षस्य भ्रमत्वाच्च । अत एव न सल्लिङ्गपरामर्शादिकमप्यनुमित्यादिप्रमायां गुणः । असल्लिङ्गपरामर्शादिस्थलेपि विषयाबाधेनानुमित्यादेः प्रमात्वात । अस्मिन्मते स्वतो ग्राह्यत्वं च दोषाभावे सति यावत्स्वाश्रयग्राहकसामग्री - प्राह्यत्वम् । तथाहि स्वाश्रयः वृत्तिज्ञानम् । तग्राहकम् साक्षिज्ञानम् । तेन वृत्तिज्ञाने गृह्यमाणे तद्गतं प्रामाण्यमपि गृह्यते । न चैवं प्रामाण्यसंशयानुपपत्तिः । तत्र संशयानुरोधेन दोषस्यापि सत्त्वेन दोषाभावघटितस्वाश्रयग्राहकाभावेन तत्र प्रामाण्यस्यैवाग्रहात् इति ( वेदा० प० अनुपलब्धिपरि० पृ०७१) । यद्वा यावत्स्वाश्रयग्राहक ग्राह्यत्व योग्यत्वं स्वतस्त्वम् । संशयस्थले प्रामाण्यस्योक्तयोग्यतायाः सत्त्वेपि दोषवशेनाग्रहात् न संशयानुपपत्तिः इति । अप्रामाण्यं तु न ज्ञानसामान्य सामग्रीप्रयोज्यम् । प्रमायामप्यप्रामाण्यापत्तेः । किं तु दोषप्रयोज्यम् । नाप्यप्रामाण्यम् यावत्स्त्राश्रयग्राहकप्राह्यम् । अप्रामाण्यघटकतदभावत्वादेर्वृत्तिज्ञानानुपनीतत्वेन साक्षिणा प्रहीतुमशक्यत्वात् । किंतु विसंवादिप्रवृत्त्यादिलिङ्गकानुमित्यादिविषयः इति परत एवाप्रामाण्यमुत्पद्यते ज्ञायते चेति ( वेदान्तप० अनुपलब्धिपरिच्छेदः पृ० ७१ - ७२ ) । तत्र प्रमात्वं स्वतोग्राह्यमिति वदतां मीमांसकानामयमाशयः । यथा दूरात्प्रत्यक्षेण इन्द्रियेण जलादि - ज्ञाने जाते तत्र स्वत एव यथार्थज्ञानत्वरूपप्रामाण्यमवधार्य जलार्थी प्रवर्तते । ज्ञानग्रहे तद्वतप्रामाण्यस्यापि महात्प्रमात्वस्य स्वतस्त्वमुपपद्यते ( त० कौ० प्रामा० पृ० १८ ) इति । अन्यत्र चेत्थमुक्तम् । मीमांसकमते प्रामाण्यस्य स्वतस्त्वं द्विविधम् उत्पत्तौ ज्ञप्तौ चेति । तत्र उत्पत्तौ स्वतस्त्वं नाम ज्ञानकरणमात्रजन्यत्वम् । येन ज्ञानं जायते तेनैव तद्गतं ७१ न्या० को ०
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org