________________
५६०
न्यायकोशः। लौकिकप्रत्यक्षस्य स्वनिष्ठप्रामाण्यविषयकतया स्वजन्यखविषयकप्रत्यक्षसामग्री स्वनिष्ठप्रामाण्यनिश्चायिका भवति इति मिश्रा आहुः । ज्ञानस्यातीन्द्रियतया प्रत्यक्षासंभवेन स्वजन्यज्ञाततालिङ्गकानुमितिसामग्री स्वनिष्ठप्रामाण्यनिश्चायिका भवति इति भट्टा आहुः (मू० म० १ प्रामा० पृ० १२६)। तदप्रामाण्याग्राहकेत्यत्र पदप्रयोजनमित्थम् । नैयायिकमते प्रमात्वमनुमानेन इदं ज्ञानं प्रमा इत्याप्तवाक्येन च गृह्यते इति सिद्धसाधनम् । तद्वारणाय यावत् इति विशेषणम्। अनुमानं तु इदं ज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वात् इति । वस्तुतस्तु यावत् इति ग्रहस्य विशेषणम् । तथा च ज्ञानग्राहकसामग्रीजन्ययावगृह विषयत्वम् इति फलितम् । इदं ज्ञानमप्रमा इति ज्ञानेन व्यवसायनिष्ठप्रामाण्याविषयीकरणात् बाधाख्यो दोषः । तद्वारणाय अप्रामाण्याग्राहिका इति विशेषणं दत्तम् । तथा च तादृशज्ञानसामग्र्याः साध्यकोट्यनिविष्टत्वात् तया प्रामाण्यस्याग्रहणेपि न बाधः इति भावः । ज्ञाननिष्ठाप्रामाण्येत्यत्र ज्ञानं तु यादृशं प्रामाण्यं प्रकृतानुमितावुद्देश्यं तादृशप्रामाण्याश्रयः इति विज्ञेयम् । तेन इदं ज्ञानमप्रमा इत्यनुव्यवसायनिष्ठप्रामाण्यग्राहकस्याप्रामाण्याग्राहकत्वाभावेपि न स्वतस्त्वहानिः ( त० दी० ) ( नील० प्रामा० पृ० ३५ )। प्रामाण्ये स्वतस्त्वं नाम यावत्स्वाश्रयविषयकज्ञानग्राह्यत्वम् । प्रामाण्याश्रयविषयकज्ञानं च स्वप्रकाशं तदेव इति गुरव आहुः । ज्ञानग्राहकातिरिक्तानपेक्षत्वम् यावत्स्वाश्रयानुमितिग्राह्यत्वम् । प्रामाण्याश्रयानुमितिओततालिङ्गका समर्थप्रवृत्तिलिङ्गकापि इति भट्टा आहुः । मिश्रमते स्वतस्त्वं च प्रामाण्यग्रहप्रतिबन्धकाभावकालीनयावत्स्वाश्रयानुव्यवसायग्राह्यत्वम् (त० प्र० ख० ४ पृ० १३२ ) (म० प्र० प्रामा० पृ० ७०)। प्रामाण्यग्रहप्रतिबन्धकाभावकालीनप्रामाण्याश्रयीभूतज्ञानग्राहकसामग्रीग्राह्यत्वं वा। अथवा विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्तहेत्वजन्यत्वम् । इदं स्वतस्त्वं च मुरारिभट्टानां मते उत्पद्यते (कु० १) (सर्व० पृ० २८३ जैमि०) (त० भा०) (सि० च० पृ० ३४ ) । उत्पत्तौ प्रामाण्यस्य स्वतस्त्वं नाम कार्यकारणादेव कार्येण सहोत्पत्तिः ( अथर्वभाष्य० पृ० १२ )
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org