________________
न्यायकोशः।
५५९ मध्ये प्रथमोद्दिष्टस्य प्रमाणस्याधीन इतरेषां निश्चय इति प्रमाणतत्त्वनिश्चय आवश्यकः । स च प्रमात्वनिश्चयं विना न भवतीति प्रमात्वनिश्चयोपाय इदानी चिन्त्यते (चि० १ प्रामा० पृ० ११४-११७ )। अत्र विप्रतिपत्तिः प्रमात्वं स्वतो ग्राह्यं परतो वा इति । अन्यत्र त्वेवं विप्रतिपत्तयः प्रदर्शिताः । ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यम् न वा इति । तज्ज्ञानविषयकज्ञानाजन्यज्ञानग्राह्यम् न वा इति । स्वाश्रयग्राहकेण गृह्यत एव न वा इति । स्वाश्रयेण गृह्यत एव न वा इति । घटोयम् इति ज्ञानप्रामाण्यमेतज्ज्ञानग्राह्यम् न वा इति । एतज्ज्ञानग्राहकमात्रग्राह्यम् न वा इति ( चि० १ प्रामा० पृ० १२१-१२६)। ज्ञानप्रमात्वस्य स्वतो ग्राह्यत्वं च स्वत एव (स्वकीयेभ्य एव) स्वजनकसामग्री स्वजन्यप्रत्यक्षसामग्री स्वजन्यज्ञाततालिङ्गकानुमितिसामनी एतदन्यतमज्ञानग्राहकसामग्रीग्राह्यत्वम् । अत्र स्वजन्य इति पदद्वयं क्रमेण स्वप्रत्यक्षस्य ज्ञाततायाश्च विशेषणम् । पञ्चम्या जन्यत्वमर्थः (मू० म० १ प्रामा० पृ० १२६) । गुरुभट्टमुरारिमिश्राणां मतत्रयसाधारणं स्वतस्त्वं च तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीप्राह्यत्वम् (त० दी० प्रामा० पृ० ३४ ) ( त० कौ० पृ. १८)। तदर्थस्तु ज्ञाननिष्ठाप्रामाण्यावाहिका यावती ज्ञानग्राहिका सामग्री इन्द्रियसंनिकर्षपरामर्शानुव्यवसायादिरूपा तज्जन्यग्रहविषयत्वम् । स च प्रहः (प्राथमिकज्ञानग्रहः ) गुरुमते व्यवसायः । भट्टमते ज्ञाततालिङ्गकानुमितिः। मुरारिमिश्रमते अनुव्यवसायः (नील० प्रामा० पृ० ३५)। तत्तद्धर्मप्रकारकज्ञानग्राहकसामग्रीजन्यग्रहत्वव्यापकविषयिताप्रतियोगित्वम् इति निष्कर्षः । इदमेव ज्ञप्तौ स्वतस्त्वमित्युच्यते (नील० पृ० ३४) (सि० च० पृ० ३३ )। यया कारणसामग्र्या ज्ञानं गृह्यते तयैव तद्गतं प्रमात्वमपि गृह्यत इति स्पष्टार्थः । अत्र त्रीणि मतानि क्रमेणोक्तानि । तथाहि । ज्ञानग्राहकं च सर्वमते घटमहं जानामि इत्याकारकमेव ज्ञानं भवति । ज्ञानस्य स्वस्यैव स्वप्रामाण्यविषयकतया स्वजनकसामग्र्येव स्वनिष्ठप्रामाण्यनिश्चायिका भवति इति गुरव आहुः। स्वोत्तरवर्तिस्वविषयक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org