________________
५५८
न्यायकोशः।
भ्रमे नातिव्याप्तिः इत्याहुः (न्या० म० ख० ४ पृ० ३४) (म० प्र० ४ पृ० ६९)। यद्वा तत्संबन्धानुयोगिविशेष्यकत्वावच्छिन्नतत्प्रतियोगिकसंबन्धावच्छिन्नप्रकारकज्ञानत्वम् । अयमेव सिद्धान्तलक्षणोक्तप्रमात्वे गदाधरभट्टाचार्याणामाशयः इति प्रतिभाति । अथवा विशेष्यितासंबन्धेन तद्धर्मवदवच्छिन्नत्वे सति प्रकारितासंबन्धेन तद्धर्मवत्त्वम् । विशेष्यिताप्रकारितयोरिव विशेष्यिताप्रकारितासंबन्धेन विशेष्यविशेषणयोरपि परस्परमवच्छेद्यावच्छेदकभावोभ्युपगम्यते इत्यभिप्रायेणेदम् ( मू० म० १ प्रामाण्य० पृ० १७५ ) । यद्यपि अन्यान्यपि विशेष्यावृत्त्यप्रकारकत्वम् अगृहीतग्राहित्वं वा सर्वधीयथार्थत्वपक्षे अनुभवत्वजातेरभावेन स्मरणान्वज्ञानत्वम् विशिष्टज्ञानत्वं वा ( चि० प्रामा: पृ० १२६ ) इत्यादीनि प्रमात्वस्वरूपाणि सन्ति । एतन्मते निर्विकल्पकव्यधिकरणप्रकारकज्ञानयोरनभ्युपगमात् । तथापि तानि मीमांसकादिमतोक्तरीत्या न स्वतो ग्राह्याणि इति नात्रोदाहृतानि । विशेष्यावृत्त्यप्रकारकत्वादेविशेषणस्य प्रागनुपस्थितौ तद्वैशिष्टयस्य ज्ञातुमशक्यत्वात् । अत्रेदं बोध्यम् । तद्वति तत्प्रकारकज्ञानत्वम् तद्वति तद्वैशिष्टयज्ञानत्वं वेति प्रमात्वद्वयं च निष्कम्पप्रवृत्त्युपयोगि मीमांसकमते स्वतो ग्राह्यं च भवति ( चि० प्रामा० पृ० १७० ) इति ।अनधिगतार्थग्राहित्वं प्रमात्वम् इति मीमांसका आहुः। तच्च स्वसमानाधिकरणस्वाव्यवहितपूर्ववर्तिस्वसमानाकारज्ञानविषयविषयकत्वम् इति निष्कर्षः ( कु० ४ टी० ) (मू० म० प्रामा० पृ० १७० )। यथा सत्यरजते इदं रजतम् इति ज्ञानस्य प्रमात्वम् । यथा वा घटे अयं घटः इति ज्ञानस्य प्रमात्वम् । प्राभाकरमते सर्वज्ञानानां यथार्थत्वात् तत्प्रकारकज्ञानत्वमेव प्रमात्वम् (चि० १ प्रामा० ) (त० प्र० ख० ४ पृ० १३३ ) (न्या० म० ४ पृ० ३५)। अथात्र प्रसङ्गात्प्रामाण्यवादः प्रदर्श्यते । परमकारुणिकमुनिप्रणीतायामष्टादशविद्यास्थानेष्वभ्यर्हिततमायां निःश्रेयसप्रयोजिकायामान्वीक्षिकीविद्यायां
प्रक्षावत्प्रवृत्त्यर्थं प्रमाणप्रमेयसंशय० तत्त्वज्ञानान्निःश्रेयसाधिगमः ... (गौत० सू० १११११) इति सूत्रेण प्रतिपादितानां षोडशपदार्थानां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org