________________
५५७
न्यायकोशः।
५५७ प्रमाणान्तरम्—( स्वतन्त्रं प्रमाणम् ) यदसाधारणं सहकारि समासाद्य
मनो बहिर्गोचरां प्रमा जनयति तत् । यथा प्रत्यक्ष इन्द्रियं प्रमाणान्तरम् । संशयस्वप्नौ तु न प्रमे इति न निद्रादेः प्रमाणान्तरत्वम् (चि० २
पृ० ३५ ) ( कु० टी० ४ )। प्रमाता-१ यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः सः (वात्स्या० १११११
प्रस्तावना० )। स च प्रमाता आत्मा (प्रशस्त० पृ० २६ )। यथा चैत्रो घटं प्रमिनोतीत्यादौ चैत्रः प्रमाता। अत्र प्रमातृत्वं च प्रमासमवायित्वम् । एतच्चाकारणत्वेपि प्रमाया ईश्वरस्य सिद्धम् ( कु० टी० ४।५ )। अत्रेदं बोध्यम् । प्रमाता स्वतन्त्रः । स्वातन्त्रयं च कारकफलोपभोक्तृत्वम् (न्या० वा० १ पृ० ९ ) इति । २ शुद्धचेतनो वृत्तिसाक्षी प्रमाता इति सांख्या आहुः। मायावादिनस्तु अन्तःकरणवृत्तिप्रतिबिम्बितम्
तदवच्छिन्नं वा चैतन्यमेव प्रमाता इत्याहुः ( वाच०)। प्रमात्वम्-तद्वति तत्प्रकारकज्ञानत्वम् (गौ० वृ० १।१।४ )। तद्वति तद्वैशिष्ट्यज्ञानत्वं वा ( चि०.१ प्रामा० पृ० १७०)। आद्यलक्षणे दलद्वयस्यार्थश्च तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशाल्यनुभवत्वम् (त० प्र० ख० १ पृ० १४) (वाक्य०)। वस्तुतस्तु तद्वतीत्यत्रावच्छिन्नत्वमेव सप्तम्यर्थः । अन्वयश्चास्य विशेष्यितासंबन्धेन तत्प्रकारकत्वे । तथा च विशेष्यितासंबन्धेन तदवच्छिन्ना या तत्प्रकारिता तच्छाल्यनुभवत्वं तत्प्रमात्वम् इति फलितम् । इदमत्रतत्प्रकारकम् इति प्रतीत्या विशेष्यस्यापि विशेष्यितासंबन्धेन तत्प्रकारितायामवच्छेदकत्वात् लक्षणसमन्वयः । रङ्गरजतयोः · इमौ रजतरङ्गौ इति विपरीतभ्रमे च रजतावच्छिन्नं न रजतत्वप्रकारकत्वम् अपि तु रङ्गावच्छिन्नम् इति न तत्रातिव्याप्तिः ( मू० म० प्रामा० सिद्धान्त० पृ० ४०३ )। अथवा विशेष्यतावच्छेदेन तद्धर्मावच्छिन्नप्रकारितासंबन्धेन तद्धर्मवत्त्वम् । विशेष्यतासंबन्धेन तद्विशिष्टत्वे सति तद्वत्त्वम् । विशेष्यतासंबन्धेन तद्वदवच्छिन्ना या प्रकारिता तच्छाल्यनुभवत्वमिति वा ( मू० म० १ )। तात्रिकास्तु तद्वद्विशेष्यकत्वावच्छेदेन तत्प्रकारकत्वम् । तेन वह्निगुञ्जयोर्गुञ्जावगाहि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org