________________
न्यायकोशः। . शब्दश्चेति प्रमाणे इति श्रीमदानन्दतीर्थभगवत्पादाचार्याः प्राहुः ।
एतन्मते त्वनुमानं श्रुत्यनुसारित्वेन प्रमाणम् न तु स्वातत्र्येणेति बोध्यम् । मानुषदैवभेदेन द्विविधं प्रमाणम् ( याज्ञ० २।११६) इति व्यवहारशास्त्रज्ञा आहुः । प्रत्यक्षमनुमानं शाब्दं चेति मन्वादयः आहुः । अत्र अलौकिके विषये वेदो ब्रह्मसूत्रं भगवद्गीता श्रीमद्भागवतमिति प्रमाणचतुष्टयमिति वाल्लभा मन्यन्ते । प्रत्यक्षमनुमानमाप्तवचनमिति त्रीणि प्रमाणानि इति सांख्या योगिनो मायावादिवेदान्तिनश्चाहुः । तत्र सांख्यपातञ्जलमायावादिमते अन्तःकरणवृत्तीनां पौरुषेयचित्तवृत्तिप्रकाशरूपबोधे कारणत्वम् । अन्तःकरणवृत्तिषु च ज्ञानत्वारोपेण तत्करणत्वमिन्द्रियाणाम् इति विवेकः (सां० प्र० भा०) (पात० सू० )। प्रत्यक्षानुमानोपमानानि त्रीणि इति नैयायिकैकदेशिन आहुः । प्रत्यक्षानुमानोपमानशब्दाश्चत्वारि प्रमाणानि इति गौतमप्रधाना नैयायिका आहुः । - शब्दात्प्रत्येमि इति विलक्षणप्रतीतेाप्तिनिरपेक्षादाकाङ्क्षादिज्ञानादुत्पत्तः
तत्करणतया शब्दस्यातिरिक्तं प्रामाण्यं सिद्ध्यति इति नैयायिकसिद्धान्तः। तत्र शब्दस्य स्वतन्त्रप्रामाण्यमुक्तम् आप्तोपदेशसामर्थ्याच्छब्दादर्थसंप्रत्ययः (गौ० २।१५२ ) इति । प्रत्यक्षानुमानोपमानशब्दा अर्थापत्तिश्चेति पश्च प्रमाणानि इति प्राभाकरा आहुः । प्रत्यक्षानुमानोपमानशब्दा अर्थापत्तिरनुपलब्धिश्चेति षट् प्रमाणानि इत्यपरे भट्टा वेदान्तिभेदाश्चाहुः । संभवैतिह्ये अप्यतिरिक्ते प्रमाणे इति पौराणिका आहुः । चेष्टाप्यतिरिक्तं प्रमाणम् इति तात्रिका अमन्यन्त ( ता० र० श्लो० ८-११) (सि० च० १ पृ० २० )। अनुभूतिरपि प्रमाणम् इति प्राभाकरा आहुः । केचित्तु शकुनलिप्यादिकमपि प्रमाणान्तरमिच्छन्ति । उपक्रमोनुमानमेव नातिरिक्तं प्रमाणम् इति (प्र० प० पृ० ५) (प्र. च० पृ० ४४ )। २ प्रमा ( यथार्थज्ञानम् )। यथा स्वतः प्रामाण्यम् परतः प्रामाण्यम् इत्यादौ प्रमाणपदार्थः प्रमा । ३ सत्यवादी । ४ इयत्ता । ५ परिच्छेदः। ६ हेतुः । ७ प्रमाता ( मेदिनी० )। ८ विष्णुः ( विष्णुस० )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org