________________
न्यायकोशः ।
५५५
1
1
लिङ्गदर्शनप्रसिद्धानुस्मरणाभ्यामतीन्द्रियार्थे भवत्यनुमानम् । एवं शब्दादिभ्योपि इति । श्रुतिस्मृतिलक्षणोप्याम्नायो वक्तृप्रामाण्यापेक्षः । तद्वचनादाम्नायस्य प्रामाण्यम् (वै० १|१|३ ) लिङ्गाच्चानित्यः शब्दः (वै० २२।३२) बुद्धिपूर्वा वाक्यकृतिर्वेदे (वै० ६।१।१ ) बुद्धिपूर्वो ददाति : ( ० ६ ११३ ) इत्युक्तत्वात् । प्रसिद्धाभिनयस्य चेष्टया प्रतिपत्तिदर्शनातदप्यनुमानमेव । प्रसिद्धगवयस्य गवयप्रतिपादनार्थमुपमानमाप्तवचनमेव दर्शनार्थापत्तिर्विरोधे वा शब्दश्रवणादनुमितमनुमानम् । संभवोप्य - विनाभावित्वादनुमानमेव । अभावोप्यनुमानमेव । यथा उत्पन्नं कार्यं कारणसंभवलिङ्गम् एवम् अनुत्पन्नं कार्य कारणासद्भावे लिङ्गम् । ऐतिह्यमप्यवितथमाप्तोपदेश एव ( प्रशस्त० पृ० २ पृ० २८ ) इति । शब्दस्य स्वातत्र्येण प्रामाण्यमनिच्छन्तोनुमानान्तर्भावमाश्रित्य प्रामाण्यमिच्छन्ति वैशेषिकादयः । तेषामयमाशयः । गामानय इत्यादिवाक्यश्रवणसमनन्तरं तावदन्त्रयप्रतीतिरनुभूयते । वाक्य आकाङ्क्षादिमत्त्वप्रतिसंधानं तदर्थ - प्रतिपत्त्यनुकूलतयावधृतम्। तथा च आकाङ्क्षादिमत्पदकदम्बकत्वप्रतिसंधानस्यावश्यकतया तस्य च स्मारितार्थसंसर्गविज्ञप्तिपूर्वकत्वनियमेनानुमानादेव तत्फलसिद्धौ किमिति शब्दस्य प्रमाणान्तरत्वाभ्युपगमः । तथाहि । एतानि पदानि स्मारितार्थ संसर्गज्ञानपूर्वकाणि आकाङ्क्षादिमदाप्तोक्तपदत्वात् गामभ्याजेतिपदकदम्बकवत् इति ज्ञानावच्छेदकतया संसर्गसिद्धिरनुमानादेव भवति इति पदपक्षकानुमानेन शब्दो न प्रमाणान्तरम् । अर्थ पक्षकानुमाने साक्षादेव संसर्गसिद्धिः । एवं हि तत्। एते पदार्थों मिथः संसर्गवन्तः आकाङ्क्षादिमत्पदकदम्बक स्मारितत्वात् गामभ्याज इति स्मारितपदार्थवत् इति । एवमुपमानमपि न प्रमाणान्तरम् । तथाहि । गवयपदं सप्रवृत्तिनिमित्तकम् साधुपदत्वात् इत्यनुमानेनैवात्रापि निर्वाह: ( त० व० पृ० ९८ ) ( न्या० सि० दी० पृ० २२ ) । प्रत्यक्षमनुमानं चेति प्रमाणद्वयमेवेति बौद्धा आईताच मन्यन्ते । लौकिकम् आर्षं चेति द्विविधं प्रमाणमिति सांख्या मन्यते । तत्र लौकिकम् प्रत्यक्षानुमानाप्तवचनानि । आर्षम् विज्ञानम् । प्रत्यक्षं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org