________________
५५४
न्यायकोशः। :: विलम्बेन प्रमोत्पत्तिः । अतः इन्द्रियसंयोगादिरेव करणम् न प्रमात्रादि • (त. भा० पृ० ५)।[ग] साधनाश्रयाव्यतिरिक्तत्वे सति प्रमा
व्याप्तम् । अनेन च प्रतितत्रसिद्धान्तसिद्धं परमेश्वरप्रामाण्यं संगृहीतम् (सर्व० पृ० २३५ अक्ष० ) ( कु० टी० ४।५)। अत्र सूत्रम् मनायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् ( गौ० २।१।६८ ) इति । [घ] प्रमायोगव्यवच्छिन्नम् । प्रमया सहायोगव्यवच्छेदेन संबन्धि । . [] अनधिगतार्थगन्तृ प्रमाणम् इति भट्टमीमांसका आहुः (सि०
च० १ पृ० २० ) ( कु० टी० ४।५ ) ( तत्त्वसंख्या० )। तदसत्। . एकस्मिन्नेव घटे घटोयम् घटोयम् घटोयम् इति धारावाहिकप्रत्ययस्थले
अधिगतार्थगन्तॄणामप्रामाण्यापत्तेः (सि० च० १ पृ० २० ) ( त० भा० १ पृ० ५ )। अत्र विवदन्ते । अविसंवादि विज्ञानं प्रमाणमिति सौगताः । अनुभूतिः प्रमाणं सा स्मृतेरन्येति केचन ॥ अज्ञातचरतत्त्वार्थनिश्चायकमथापरे । प्रमेयव्याप्तमपरे प्रमाणमिति मन्वते ॥ प्रमानियतसामग्री प्रमाणं केचिदूचिरे ( ता० र० श्लो० ५-७ ) इति न्यायनये प्रमाणानि चत्वारि । प्रत्यक्षम् अनुमानम् उपमानम् शब्दश्च ( गौ० १।१।३ ) इति । यत्प्रमाणं तत्प्रत्यक्षादिचतुष्टयान्यतमम् इति वाक्यार्थः। तेन न्यूनाधिकसंख्याव्यवच्छेदलाभः (म० प्र० १ पृ० ७) । अत्रेदं बोध्यम् । नित्यप्रमाया आश्रयः । (समवायी) प्रमाणं ईश्वरः । अनित्यप्रमायास्तु करणं प्रत्यक्षादिचतुष्टयम् ( ता० र० श्लो० ४ ) इति । [च प्रमीयते परिच्छिद्यते अनेनेति प्रमाणम् । तच्च द्विविधम् मानुषं दैविकं च ( मिताक्षरा अ० २ श्लो० २२ )। प्रकारान्तरेण प्रमाणं द्विविधम् । शब्दोपजीवि शब्दानुपजीवि च ( कु० टी० )। इदानीं मतभेदेन प्रमाणसंख्या कथ्यते । प्रत्यक्षमेकमेव प्रमाणम् इति चार्वाका आहुः । प्रत्यक्षमनुमानं चेति द्वे प्रमाणे इति कणादप्रधाना वैशेषिकाः मन्यन्ते । एतन्मते शब्दोपमानयोरनुमानविधयैव प्रामाण्यम् न तु स्वातत्र्येणेति बोध्यम् (त० कौ० पृ० ८ )। अत्र भाष्यम् । शब्दादीनामप्यनुमानेन्तर्भावः । समानविधित्वात् । यथा प्रसिद्धसमयस्यासंदिग्ध
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org