________________
न्यायकोशः।
५५३ प्रमा इति पातञ्जला आहुः (पात० व्या० भा० )(सां० भा० ११८७)। न्यायनये प्रमा द्विविधा । नित्या अनित्या च । तत्र नित्या भगवतः ।
अनित्या जीवस्य ( ता० र० श्लो० ४ )। प्रमाणबाधितार्थकप्रसङ्गः-तर्कविशेषः । शिष्टं तु तदन्यबाधितार्थप्रसङ्ग
शब्दव्याख्याने संपादितम् तत् तत्र द्रष्टव्यम् । अत्र व्युत्पत्तिः प्रमाणेन
बाधितोर्थो यस्य इति ( कप् )। प्रमाणम्-१ [क] प्रमाता येनार्थं प्रमिणोति तत् (वात्स्या० १११११
प्रस्तावना) । अत्र प्रमीयतेनेन इति व्युत्पत्तिद्रष्टव्या। प्रमाणस्य स्वभावस्तु सतः प्रकाशकं प्रमाणमसदपि प्रकाशयति ( वात्स्या० १।१।१ प्रस्तावना ) इति । तल्लक्षणं तु प्रमाणत्वमेव । तच्च तद्वति तत्प्रकारकत्वरूपप्रकर्षविशिष्टज्ञानकारणत्वम् (गौ० वृ० १।१।३ )। यद्वा अनुभवत्वव्याप्यजात्यवच्छिन्नप्रमावृत्तिकार्यतानिरूपिताकारणताशालित्वे सति व्यापारवत्त्वम् (त० प्र० ख० १ पृ० १४ )। अथवा अनधिगतार्थकानुभवकारणत्वम् । तच्च गृहीतग्राहीतरानुभवकारणत्वम् इति मीमांसका आहुः ( कु० टी० ३ ) ( त० प्र० ख० ४ पृ. ९)। स्वसमानाधिकरणस्वाव्यवहितपूर्ववर्तिस्वसमानाकारनिश्चयविषयविषयकेतरतद्वद्विशेध्यकतत्प्रकारकानुभवकारणत्वम् इति यावत् ( कु० टी० ३ )। सांख्यास्तु असंदिग्धाविपरीतानधिगतविषयबोधसाधनत्वम् इत्याहुः । अत्र द्वयोरेकतरस्य वाप्यसंनिकृष्टार्थपरिच्छित्तिः प्रमा तत्साधकं यत् तत् त्रिविधं प्रमाणम् ( सांख्यसूत्रम् ११८७ ) इति । तदर्थश्च असंनिकृष्टः प्रमातर्यनारूढः अनधिगत इति यावत् ( सां० भाष्य० )। [ख ] प्रमायाः करणम् (न्या० म० पृ० १ ) (त० सं० ) ( त० भा० पृ० ४ ) (त० कौ० पृ० ८)। यथा चक्षुरादि प्रत्यक्षात्मकप्रमायाः प्रग्नाणम् । अनुमितौ च लिङ्गदर्शनं प्रमाणम् । उपमितौ च सादृश्यज्ञानं प्रमाणम् । शाब्दे च वेदाः प्रमाणमित्यादौ शब्दः प्रमाणम् । अत्रेदं बोध्यम् । इन्द्रियसंयोगादिरेव प्रमाकरणम् । न तु प्रमातृप्रमेयादीनि । सत्यपि प्रमातरि प्रमेये च प्रमानुत्पत्तेः। इन्द्रियसंयोगादौ तु सत्य ७० न्या०को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org