________________
५५२
न्यायकोशः। यज्ज्ञानं तत्प्रमात्वानधीनप्रमात्वकत्वम् (म० प्र० १ पृ० ४ )। स्मृतौ तु तादृशपूर्वानुभवप्रमात्वाधीनप्रमात्वकत्वेन स्मृतिव्यावृत्तिः । अत्रोभयत्र स्वपदं फलीभूतज्ञानपरमेव । अत्रेयमभिसंधिः । प्रमात्वस्य स्मृतिसाधारणत्वे स्मृतिकारणानुभवस्यापि प्रमाणान्तरत्वापत्त्या शास्त्रे प्रमाणव्यवहारौपयिक रूपमनुभवत्वघटितमेवानुमन्यन्ते तात्रिकाः ( दि० गु० पृ० २११ )। अथ वा यज्जातीयविशिष्टज्ञानत्वावच्छेदेन समानाकारनिश्चयोत्तरत्वं तज्जातीयान्ययथार्थज्ञानस्यैवागृहीतग्राहित्वेन प्रमात्वम् । अत एव धारावाहिप्रत्यक्षव्यक्तीनां समानाकारग्रहोत्तरवर्तित्वेपि न तासां प्रमात्वहानिः । हानिस्तु समानाकारानुभवसमुत्थानां स्मृतीनामिति । अयं चात्र विशेषः । अज्ञायमानकरणजन्यतत्त्वानुभवः प्रत्यक्षप्रमा । ज्ञायमानकरणजन्यतत्त्वानुभवोनुमितिप्रमा इति । [3] विषयताश्रयावृत्त्यप्रकारकानुभवः । [च ] यत्प्रकारिका या विषयता तत्प्रकारसमानाधिकरणविषयताकः स्वप्रकारसमानाधिकरणविषयताको वा अनुभवः । अत्र प्रकारपदं धर्मपरम् । तद्धर्मसमानाधिकरणतद्विषयताक इत्यर्थः । एतल्लक्षणद्वये इदं रजतं रङ्गं च इत्यादौ प्रकारभेदेन विषयताभेदाभावेपि न क्षतिः इति ध्येयम् । अतिरिक्तविषयतापक्षे ( विशेष्यतावच्छेदकतातिरिक्ता प्रकारता विषयतापि च सविषयका इति पक्षे ) इदं लक्षणद्वयं ( ङ च इत्यत्र स्थितम् ) स्वीकृतम् इति ज्ञेयम् (मू० म० १ प्रामा० पृ० ४१६-४१९)। [छ] विशेष्यनिष्ठात्यन्ताभावाप्रतियोगिप्रकारकविषयताप्रतियोगी [ज] विशेष्यनिष्ठात्यन्ताभावप्रतियोगिग्रकारानवच्छिन्नविषयताप्रतियोगी वा [ झ] विषयतासमानाधिकरणात्यन्ताभावप्रतियोगिप्रकारकविषयत्वाप्रतियोगी वा [अ] विषयतासमानाधिकरणात्यन्ताभावप्रतियोगिप्रकारानवच्छिन्नविषयताप्रतियोगी वा अनुभवः (चि० १ प्रामा० पृ० ४००-४२० )। एकधर्मावच्छिन्नतत्तदभावोभयवन्निष्ठविशेष्यताकं द्रव्यं रजतम् इत्यादिज्ञानं न लक्ष्यम् इति मते छ ज इत्यादीनि लक्षणानि ( मू० म० १ प्रामा० पृ० ४२०)। वृत्तीद्धो बोधः प्रमा इति मायावादिनो वदन्ति । अनधिगतार्थस्य वस्तुनोवधारणम् इति सांख्या आहुः । पुरुषनिष्ठबोधः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org