________________
न्यायकोशः। प्रभेदः-१ सामान्यधर्मव्याप्यावान्तरधर्मविशिष्टः । यथा घटो द्रव्यप्रभेदः
इत्यादौ । २ स्वसमभिव्याहृतपदार्थतावच्छेदकधर्मः। यथा अनित्या पृथिवी त्रिविधा शरीरेन्द्रियविषयभेदात् इत्यादौ (वाक्य० १ पृ० ३ )। ३ अन्योन्याभावः । अत्र भेदप्रभेदशब्दयोरेकार्थकत्वम् इत्यभिप्रायेणेदमुक्तम् इति विज्ञेयम् । प्रमा—( अनुभवः ) [क] यदर्थविज्ञानं सा प्रमा ( वात्स्या० १११११
प्रस्तावना० )। सा च द्रव्यादिविषयं ज्ञानम् ( यथार्थम् ) ( प्रशस्त. पृ० २६ )। लक्षणं च वक्ष्यमाणं प्रमात्वमेव इति विज्ञेयम् । प्रमात्वस्य स्वतोप्राह्यत्वादिविचारः प्रमात्वशब्दे दृश्यः । [ख] तत्त्वानुभवः । [ग] यत्र यदस्ति तत्र तस्यानुभवः । तद्वति तत्प्रकारकानुभवो वा ( चि० १ पृ० ४०० ) (त० सं० ) । फलितार्थस्तु तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकताशाल्यनुभवः इति । विशेष्यितासंबन्धेन तदवच्छिन्ना या तत्प्रकारिता तच्छाल्यनुभवः इति वा । तेन रजतरङ्गयोः इमे रङ्गरजते इत्यादिविपरीतसमूहालम्बनभ्रमे नातिव्याप्तिः (मू० म० १ प्रामा० पृ० ४०३)। निर्विकल्पकज्ञानं तु प्रमा अप्रमा एतदहिभूतमेव । व्यवहारानङ्गत्वात् ( चि० १ प्रामा० पृ० ४०२) । एवं च निर्विकल्पकं प्रमालक्षणालक्ष्यमेवेति तस्य प्रकारिताविशेष्यिताशून्यत्वेपि न तत्राव्याप्तिशङ्का इति भावः । [घ] यथार्थानुभवः ( ता० र०) . (त० भा० ) (न्या० म० १ पृ० १) (त० सं० ) (त० कौ० पृ० ७)। यथा रजते इदं रजतम् इति प्रत्यक्षं प्रमा ( त० सं० )। अत्र याथार्थ्यं च तद्वति तदवगाहित्वम् (न्या० म० १ ) (त० सं० )। तद्वद्विशेष्यकत्वे सतीत्यर्थः । भवति हि रजते इदं रजतम् इति ज्ञानं रजतत्ववति रजतत्वावगाहि इति लक्षणसमन्वयः ( न्या० मं० ) (त० प्र० १ पृ० १० )। अत्राहुरुदयनाचार्याः यथार्थानुभवो मानमनपेक्षतयेष्यते (कु० ४।१ ) इति । अत्र मानशब्दस्यार्थः प्रमा इति ज्ञेयम् । अत्र प्रयोगश्चेत्थम् । यथार्थानुभवः प्रमापदवाच्यः अनपेक्षत्वात् इति । अनपेक्षत्वं च स्वसमानाधिकरणं स्वसमानविषयकं च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org