SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ५५० न्यायकोशः। प्रध्वंस:-१ उत्पत्तिमानविनाशी प्रध्वंसः ( सर्व० सं० पृ० २३२ - अक्षपा० )। २ अतीतावस्था इति सांख्या आहुः। प्रपञ्चः-१ विस्तारः।२ वैपरीत्यम् । ३ प्रतारणम्। ४ संसारः (वाच०)। अत्र वल्लभीया वेदान्तिनो मन्यन्ते । प्रपञ्चो भगवत्कार्यः । संसारस्तु - मायाकार्यः । तथा च प्रपञ्चस्य स्थावरजङ्गमात्मकस्य भगवत्कार्यत्वेन सत्यत्वम् । संसारस्य त्वहंताममतात्मकस्य मायाकार्यत्वान्मिथ्यात्वमेव । एवं च प्रपञ्चसंसारयोर्भेद एव इति । प्रबन्धः-१ संदर्भः । २ ग्रन्थादेः रचनम् । . प्रभवः-१ प्रथमप्रकाशः । यथा हिमवतो गङ्गा प्रभवतीत्यादौ प्रभवत्यर्थः । • अत्र भुवः. प्रभवः (पा० सू० १।४।३१ ) इत्यनेनापादानसंज्ञा । तदर्थश्च यत्संबन्धात्प्रभवनं प्रथमप्रकाशः स प्रभवः इति ( ग० व्यु० का० ५ पृ० १०८ )। अत्र प्रभवत्यस्मिन् इति प्रभवः इति व्युत्पत्त्या प्रथमप्रकाशस्थानम् इत्यर्थो लभ्यते ( वाच० ) । अन्यतः सिद्धस्य प्रथमोपलम्भस्थानम् इति हेमचन्द्र आह । अत्र प्रकाशः आद्यबहिः( भूखण्ड- )संयोगः धात्वर्थः । संयोगनाशाव्यवहितोतरक्षणवृत्तित्वं पञ्चम्यर्थः । आख्यातार्थ आश्रयत्वम् । तथा च हिमालय संयोगध्वंसाव्यवहितोत्तरक्षणवृत्त्याद्यपृथिवीसंयोगाश्रयत्ववती गङ्गा इति बोधः । यद्वा पञ्चम्यर्थः संबन्धाधीनत्वम् । तम्य तादृशक्रियायां प्रभवत्यर्थे प्रथमप्रकाशे अन्वयः । संबन्धे च हिमवदादेः प्रकृत्यर्थस्यान्वयः (ग० व्यु० कार० ५ पृ० १०८ )। एवम् वल्मीकापात्प्रभवति .. धनुःखण्डमाखण्डलस्य ( मेघदू० पू० १५) इत्यादावप्यूह्यम् । अत्र ऊर्ध्वदेशसंयोगः प्रभवत्यर्थः । अन्यत्समानम् (का० व्या० पृ०१०)। . २ संवत्सरविशेषः इति मौहूर्तिका वदन्ति । प्रभृतिः-आदिः । यथा तदाप्रभृत्येव वनद्विपानाम् (रघु० स० २ श्लो० ३८) इत्यादौ । यथा वा मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः (रघु० स० ४ श्लो० ७ ) इत्यादौ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy