________________
न्यायकोशः। प्रकृतिनिपाताभ्यां भिन्नो यादृशार्थे शक्तिनिरूढलक्षणान्यतरात्मकप्रशस्तवृत्तिमान् यादृशः शब्दः स तादृशार्थकप्रत्ययः । यथा एकत्वार्थकाः सुबादयः प्रत्ययाः। शक्त्या निरूढलक्षणया च गुणगुणिनो स्थितिप्रस्थानयोश्च बोधका अपि शुक्लस्थाप्रभृतयः प्रकृतिभ्यो न भिन्नाः तथा शक्त्या समुच्चयादिप्रतिपादका अपि चादयो न निपातेभ्यः भिन्नाः इति तत्र नातिव्याप्तिः ( श० प्र० श्लो० ८ टी० पृ० १० )। [ख] यः शब्दः शब्दान्तरार्थाविशेषिते यादृशस्वार्थे धर्मिणि तिङर्थस्यान्वयबोधने स्वरूपायोग्यः स वानिमादिशब्देभ्यो भिन्नस्तादृशार्थे प्रत्ययः । यथापचतीत्यादौ तिङाम् पाचकोस्तीत्यादौ कृताम् काश्यपिरित्यादौ च तद्धितानाम् प्रकृत्यर्थावच्छिन्न एव स्वार्थे कृत्यादौ तिङर्थस्य वर्तमानत्वादेर्बोधकत्वम् न तु तदनवच्छिन्ने इति न तेष्वप्रसङ्गः ( अव्याप्तिः )। चैत्रोस्तीत्यादावर्थान्तरानवच्छिन्ने स्वार्थे नाम्नां तिर्थान्वयबोधकत्वम् । एवम् यजेत स्थीयेत इत्यादी यजादिधातूनाम् तिङान्वयबोधकत्वम् इति तत्र नातिव्याप्तिः। निभनिपातादिकस्तु शब्दान्तरार्थानवच्छिन्ने सदृशसमुवयादिस्वार्थे तिङर्थस्यान्वयं प्रति स्वरूपायोग्योपि निभादिरेव न तु तद्भिन्नः इति न तत्र प्रसङ्गः ( श० प्र० श्लो० ९ टी० पृ० १२)। [ग] व स्वप्रकृति एतदन्यतरार्थप्रत्यायको यः स प्रत्ययः इति नागोजीभट्टादयः आहुः। अयं भावः। बहुजादेर्निरर्थकतया मुख्यप्रत्ययत्वाभावादेव पूर्वत्वरूपावधित्वनिवेशेपि न दोषः । अत एवोक्तं हरिणा यः स्वेतरस्य यस्यार्थे स्वार्थस्यान्वयबोधने । यदपेक्षस्तयोः पूर्वा प्रकृतिः प्रत्ययः परः॥ इति ( वाक्यप०)। परत्वेन विधीयमानत्वमेव प्रत्ययत्वमिति केचिच्छाब्दिका वदन्ति । तन्न योग्यम। बहुजादावव्याप्तिप्रसङ्गात् इति शब्दशक्तिप्रकाशिकाकृत आहुः । [घ ] अन्ये तु शाब्दिकाः प्रकृतिमवधीकृत्य विधीयमानः स्वार्थबोधकः शब्दविशेषः इत्याहुः ( शब्दार्थरत्न० ) ( वाच० )। अत्र महाभाष्यम् स्वीयमर्थं प्रत्याययति इति । अत्रावधिश्च पूर्वापररूपो ग्राह्यः । तेन बहुचि बहुगुडो द्राक्षा इत्यादौ नाप्रसङ्गः । प्रत्ययश्चतुर्विधः । विभक्तिः धात्वंशः तद्धितः कृत् इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org