________________
न्यायकोशः। कादेष्टाबादेश्च तद्धितत्वानुपगमे पञ्चविधो वा प्रत्ययः इति ( श० प्र० श्लो० ५९ टी० पृ० ७२ )। प्रत्यर्थी—[क] अर्थ्यत इत्यर्थः साध्यः । सोस्यास्तीत्यर्थी । तत्प्रतिपक्षः
प्रत्यर्थी ( मिताक्षरा अ० २ श्लो० ६))। [ख] साध्यार्थस्य प्रतिपक्षवादी तदभाववादी च ( मिताक्षरा अ० २ श्लो० ८० )। प्रत्यवस्कन्दनम्-अर्थिना लिखितो योर्थः प्रत्यर्थी यदि तं तथा । प्रपद्य
कारणं ब्रूयात्प्रत्यवस्कन्दनं स्मृतम् ॥ ( मिताक्षरा अ० २ श्लो० ७ )। प्रत्यवस्थानम्-१ उपालम्भः प्रतिषेधः (वात्स्या० १।२।१८)। २ दूषणाभिधानम् ( गौ० वृ० १।२।१८ )। यथा साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः (गौ० १।२।१८) इत्यादौ । ३ प्रतिपक्षतया अवस्थानम् इत्यपि केचिदाहुः। प्रत्यवायः-१ अधर्मवदस्यार्थीनुसंधेयः । यथा अनुत्पत्ति तथा चान्ये
प्रत्यवायस्य मन्वते ( जाबालिः) इत्यादौ । २ विपरीताचरणम् ।
( मनु० टी० कुल्लूक० ४।२४५ )।। प्रत्याम्नायः-१ [क] निगमनवदस्यार्थीनुसंधेयः ( प्रशस्त ० पृ० २८)।
[ख] प्रतिज्ञायाः पुनर्वचनम् । अनुमेयत्वेनोद्दिष्टे चानिश्चिते च परेषां हेत्वादिभिरवयवैराहितशक्तीनां परिसमाप्तेन वाक्येन पुनर्निश्चयापादनाथ प्रतिज्ञायाः पुनर्वचनम् । यथा तस्माद्रव्यमेव इति पुनर्निश्चयापादनार्थ प्रत्याम्नायः ( प्रशस्त० २ पृ० २९-३१)। अत्रार्थस्यैव परिसमाप्तिः। कथम् । अनित्यः शब्दः इत्यनेनानिश्चितानित्यत्वमात्रविशिष्टः शब्दः कथ्यते । प्रयत्नानन्तरीयकत्वात् इत्यनेन साध्यसमधर्ममात्रमभिधीयते। इह यत् प्रयत्नानन्तरीयकम् तत् अनित्यं दृष्टम् यथा घटः इत्यनेन साध्यसामान्येन साधनसामान्यस्यानुगममात्रमुच्यते। नित्यमप्रयत्नानन्तरीयकं दृष्टम् यथा आकाशम् इत्यनेन साध्याभावेन साधनस्यासत्त्वं प्रदर्श्यते । तथा च प्रयत्नानन्तरीयकः शब्दः न च तथा आकाशवदप्रयत्नानन्तरीयकः शब्दः इत्यन्वयव्यतिरेकाभ्यां दृष्टसामर्थ्यस्य शब्देनु६९ न्या. को. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org