________________
न्यायकोशः ।
५४३
प्रत्यभिज्ञा - ( प्रत्यक्षम् ) [क] अतीतावस्थावच्छिन्नवस्तुग्रहणम् । प्रत्यभिज्ञाप्रत्यक्षे हि अतीतापि पूर्वावस्था स्फुरत्येव ( त० भा० प्रमाण० शब्द० पृ० १९ ) । प्रत्यभिज्ञाशब्दस्येत्थं व्युत्पत्तिः । प्रतिगता अभिज्ञाम् इति प्रत्यभिज्ञा ( वाच० ) । तल्लक्षणं तु इन्द्रिय सहकृत संस्कारजन्यज्ञानत्वम् ( ल० व० ) ( न्या० सि० दी० पृ० ५९ ) । प्रत्यभि - ज्ञायामुपनीततत्तादिविषयकत्वरूपमुपनीतभानमानुभाविकम् इति बोध्यम् ( दीधि० बाध० ) । प्रत्यभिज्ञायामात्मा विषयः इति सिद्धान्तः । मायावादिनस्तु अन्तःकरणविशिष्ट एवात्मा प्रत्यभिज्ञाविषयः न तु केवलचिदात्मा इत्याहुः | अत्र प्राभाकराः सोहम् इति प्रत्यभिज्ञायां विषयत्वेनाश्रयो नात्मा सिध्यति । किं तर्हि सोयं घटः इत्यादिप्रत्यभिज्ञाश्रयत्वेन इत्यमन्यन्त ( विवरण प्रमेयसंग्रहे ) ( वाच० ) । [ख] अतीतावस्थावच्छिन्नस्य वर्तमानभेदावगाहि प्रत्यक्षम् ( प० च० ) । सा च यथा स एवायं घटः यो मया पूर्वमुपलब्धः इत्याकारिका पूर्वावस्थानुभव जनित संस्कार सहकृतेन्द्रियप्रभवा प्रत्यभिज्ञा ( त० भा० हेत्वाभा ० पृ० ५० ) । यथा वा स एवायं चैत्रः इति प्रतिसंधाने - नाभिमुखीभूते वस्तुनि ज्ञानम् ( सर्व० पृ० १९३ प्रत्यभि० ) । अत्र तद्देशकालवृत्तित्वरूपतत्ता संस्कारात् स एवायं घटः इति प्रत्यभिज्ञा जायते इति बोध्यम् ( नील० १ पृ० १४ ) । [ग] तदनुगृहीतस्तदनुसंधानविषयः प्रत्ययस्तद्भावविषयः प्रत्यभिज्ञानम् (न्या० वा० )। प्रत्यभिज्ञाशास्त्रम्-सूत्रं वृत्तिर्विवृत्तिर्लध्वी बृहतीत्युभे विमर्शिन्यौ । प्रकरण -
-
विवरणपञ्चकमिति शास्त्रं प्रत्यभिज्ञायाः ॥ ( सर्व ० सं० पृ०१९१ प्रत्य० ) । प्रत्ययः – १ बुद्धिवदस्यार्थोनुसंधेयः । सांख्यास्तु स्रक्चन्दनादिविषयसंनिकर्षादिन्द्रियप्रणाडिकयैव सुखदुःखाद्याकारो बुद्धेरेव यः परिणामविशेष: ( महत्तत्त्वधर्मः ) स प्रत्यय: इत्याहु: (वै० उ० ८|१|१ ) । २ अधीनः । ३ शपथः । ४ विश्वासः । ५ निश्चयः । ६ हेतुः । ७ छिद्रम् । ८ आचारः । ९ ख्यातिः । १० स्वादु । ११ सहकारि - कारणम् ( वाच · ) । १२ ( सार्थकः शब्दः ) [क]
यादृशार्थक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org