________________
न्यायकोशः। कल्पकज्ञानद्वारा करणम् । तथाहि । यदा निर्विकल्पकज्ञानानन्तरं सविकल्पकज्ञानमुत्पद्यते तदा इन्द्रियार्थसंनिकर्षः करणम् । निर्विकल्पकज्ञानमवान्तरव्यापारः। सविकल्पकं ज्ञानं फलम् इति ( त. भा० प्रमाण० पृ० ६)। तृतीयं च निर्विकल्पकज्ञानम्। तच्च सविकल्पकज्ञानानन्तरं यत्र हानोपादानोपेक्षाबुद्धयो भवन्ति तत्र सविकल्पकज्ञानं द्वारीकृत्य करणम् (सि० च० १ पृ० २१ )। तथाहि। यदा सविकल्पकज्ञानानन्तरं हानोपादानोपेक्षाबुद्धयो. जायन्ते तदा निर्विकल्पकं ज्ञानं करणम् । सविकल्पकज्ञानमवान्तरव्यापारः । हानादिबुद्धयः फलम् (त० भा० प्रमाण २ पृ. ६) इति। अत्राहुः। सर्वत्रापि द्रव्य गुणकर्मादिप्रत्यक्षे इन्द्रियमेव करणम् । विषयेन्द्रियसंयोगः इन्द्रियमनःसंयोगो वा व्यापारः । द्रव्यगुणकर्मादिप्रत्यक्षं फलम् इति । तत्र षड्विधद्रव्यप्रत्यक्षे त्वङानःसंयोगो महत्त्वं च कारणम् । तत्र द्रव्यचाक्षुषप्रत्यक्षे तु महत्त्वम् अनेकद्रव्यत्वम् उद्भूतरूपम् प्रकाशश्च कारणम् (प्रशस्त० गु० पृ० २५ )। अत्र च येनेन्द्रियेण यद्वस्तु गृह्यते तेनेन्द्रियेण तद्गतं सामान्यं तत्समवायस्तदभावश्च गृह्यते इति नियमो ग्राह्यः (प्र० प्र०)। तत्रेन्द्रियात्मकं प्रत्यक्षं द्वधा । द्रव्यग्राहकम् द्रव्याग्राहकं च । आद्यम् चक्षुस्त्वङ्मनांसि । द्वितीयम् घ्राणम् रसनम् श्रवणम् इति (न्या०म०१ पृ० ५ )। यत् संबद्धं सत् तदाकारोल्लेखि विज्ञानम् तत प्रत्यक्षम् इति सांख्या आहुः ( सांख्य० सू० ११८९ )। ३ प्रत्यक्षात्मकज्ञानविषयः । यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वाद्बटवत् ( त० दी० १ पृ० ९) इत्यादौ । अत्र प्रत्यक्ष इत्यस्य बहिरिन्द्रियजन्यप्रत्यक्षविषयः इत्यर्थः ( नील० १ वायुनि० पृ० ९)। मायावादिमते अत्रत्यप्रत्यक्षलक्षणं च स्वाकारवृत्त्युपहितप्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्वशून्यत्वे
सति वर्तमानयोग्यत्वम् ( वेदा० ५० परि० १ पृ० १४ )। प्रत्यनुमानम्-पतिपक्षानुमानम् । यथा पर्वतो वह्निमान् धूमात् इति
वादिनोक्ते पर्वतो वह्नयभाववान् पाषाणमयत्वात् इति प्रतिवादिनः प्रतीपानुमानम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org