________________
न्यायकोशः।
५४१ ५० १ पृ० १२ )। न्यायमतसिद्धं प्रत्यक्षं द्विविधम् । नित्यम् अनित्यं च । तत्र नित्यं भगवतः । अनित्यं जीवस्य । अनित्यं प्रत्यक्षं द्विविधम् । लौकिकम् अलौकिकं च । तत्र लौकिकं प्रत्यक्षं द्विविधम् । सविकल्पकम् निर्विकल्पकं च । अत्रोच्यते। अपरोक्षप्रमाव्याप्तं प्रत्यक्षं द्विविधं मतम् । सविकल्पकमित्येकमपरं निर्विकल्पकम् ॥ इति ( ता० र० श्लो० ११-१२ )। प्रकारान्तरेण लौकिकं प्रत्यक्षं षड्विधम् । घाणजम् रासनम् चाक्षुषम् स्पार्शनम् श्रौत्रम् मानसं चेति ( न्या० म० १ पृ० ३) (भा० प० श्लो० ५३ ) (त० सं० ) (त० भा० पृ०६) (त० कौ० पृ. ८)। अलौकिकं तु त्रिविधम् । सामान्यलक्षणम् ज्ञानलक्षणम् योगजं च । त्रिविधमपीदं प्रत्यक्षं सविकल्पकमेव ( त० व० ) (मु० १ परि० ३ )। २ (प्रमाणम् ) [क] साक्षात्काररूपप्रमाकरणम् ( न्या० म० १ . पृ० २)। अत्रार्थे प्रतिगतमक्षं प्रत्यक्षम् इति व्युत्पत्तिः ( गौ० वृ० १।१।४ ) ( न्या० वा० १ पृ० ३०)। अथवा अक्षस्याक्षस्य प्रतिविषयं वृत्तिः। वृत्तिस्तु संनिकों ज्ञानं वा। यदा संनिकर्षस्तदा ज्ञानं प्रमितिः । यदा ज्ञानं तदा हानोपादानोपेक्षाबुद्धयः फलम् ( वात्स्या० १।१।३)। [ख] साक्षात्कारिप्रमाकरणम् (त० भा० पृ० ५) ।[ग] प्रत्यक्षप्रमायोगव्यवच्छिन्नं प्रत्यक्षप्रमाणम् । ( अयोगव्यवच्छिन्नमिति पदच्छेदः )। तच्च ईश्वरघ्राणरसनचक्षुःस्पर्शनश्रोत्रमनोलक्षणम्। [घ] प्रत्यक्षज्ञानकरणम् (त०सं०)। इदं च प्रमाणतदाभाससाधारणं लक्षणमपि स्यात् इति भाति। तच्च करणं त्रिविधम् । कचित् इन्द्रियम् क्वचित् इन्द्रियार्थसंनिकर्षः कचित् ज्ञानं च । तत्राद्यम् निर्विकल्पकज्ञाने करणम् । तथाहि यदार्थसंनिकृष्टेनेन्द्रियेण निर्विकल्पकात्मकं ज्ञानं फलमुत्पद्यते तस्य ज्ञानस्येन्द्रियं करणम् । छिदाया इव परशुः । इन्द्रियार्थसंनिकर्षो व्यापारः । छिदाकरणस्य परशोरिव दारुसंयोगः । निर्विकल्पकज्ञानं फलम् । परशोरिव छिदा । अत्र कश्चिदाह सविकल्पकादीनामपीन्द्रियं करणम् । यावन्ति त्वान्तरालिकानि संनिकर्षादीनि तानि सर्वाण्यवान्तरव्यापाराः इति ( त० भा० प्रमाणनि० पृ० ६ )। द्वितीयम् सविकल्पकज्ञाने निर्वि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org