________________
न्यायकोशः। (चि० १) (न्या० बो० १ पृ० ११) (मु० १।३ पृ० १०९)। ज्ञानकरणकत्वाव्यभिचारिजातिशून्यज्ञानत्वम् इति विवक्षितोर्थः ( दि. ११३ पृ० १०३)। इदं च जीवेश्वरोभयप्रत्यक्षसाधारणं लक्षणम् इति विज्ञेयम् ( न्या० बो० १ पृ० ११) । तथा च ईश्वरप्रत्यक्षस्य नित्यत्वेन न किंचिदपि करणमस्ति । जीवप्रत्यक्षस्य चेन्द्रियमेव करणम् न किंचिदपि ज्ञानं करणम् । एवं चोभयोः प्रत्यक्षयोर्ज्ञानाकरणकत्वमक्षुण्णमेव इति लक्षणसमन्वयः। [ग]. साक्षात्कारत्वव्यञ्जकविषयताविशेषवज्ज्ञानम् (ग० सत्प्र०)। अत्र साक्षात्कारत्वं च साक्षाकरोमि इत्यनुव्यवसायसाक्षिको जातिविशेषः । अथवा जन्यधीजन्यमात्रवृत्तिर्मानसावृत्तिर्या जातिः तच्छून्यज्ञानत्वम् ( न्या० म० १२ पृ० ३)(म०प्र० पृ० ९)। भवति हि जन्यं ज्ञानम् (व्याप्तिज्ञानम् अतिदेशवाक्यार्थज्ञानम् पदज्ञानादि)। तज्जन्यम् अनुमित्युपमितिशाब्दबोधादि। तन्मात्रवृत्तिर्मानसावृत्तिश्च या जातिः अनुमितित्वोपमितित्वशाब्दबोधत्वादिः तच्छून्यत्वं साक्षात्कारे वर्तते इति लक्षणसंगतिः (त० प्र०१ पृ० १५)। अत्र पदप्रयोजनादिकं च लर्कप्रकाशे सविस्तरं कथितम् । तच्च विस्तरभयानात्र संगृहीतम् । [घ] प्रतिविषयाध्यासः प्रत्यक्षम् इति सांख्याः आहुः । [ङ ] साक्षाद्धीः इति प्राभाकरा आहुः (चि० १)। साक्षात्त्वं च साक्षात्करोमि इत्यनुव्यवसायगम्यो जातिविशेषः ( चि० १) ( न्या० म० १ पृ० २)। न्यायमते साक्षात्त्वं च जातिविशेषः एव । प्राभाकरमते तु साक्षात्त्वं न जातिः । नियतव्यञ्जकाभावादिति ( चि० १ पृ० ५५६ )। [च] यत्किचिदर्थस्य साक्षात्कारिज्ञानमिति बौद्धा आहुः (न्या०बि० १ पृ० ७)। [छ ] वैशिष्ट्यानवगाहिज्ञानं प्रत्यक्षम् इति नास्तिका आहुः। [ज] अन्तःकरणवृत्त्यवच्छिन्नचैतन्येन विषयस्फुरणम् प्रत्यक्षम् इति मायावादिनो मन्यन्ते। अत्रोच्यते । बुद्धितत्स्थचिदाभासौ द्वावपि व्याप्नुतो घटम् । तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् ।। इति ( पञ्चद० ७९१ )। मायावादिमते प्रत्यक्षलक्षणं च तत्तदिन्द्रिययोग्यवर्तमानविषयावच्छिन्नचैतन्याभिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम् ( वेदा० परि०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org