________________
न्यायकोशः ।
६३९
1
प्रत्यक्षम् - १ (अनुभव: ) [क] इन्द्रियार्थ संनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् (गौ० १|१|४ ) ( त० सं०) ( मु० १।३ पृ० १०८ ) । तदर्थस्तु अव्यपदेश्यम् अशाब्दं ज्ञानम् ( वात्स्या० १|१|४ ) । निर्विकल्पकज्ञानम् ( गौ० वृ० १|१|४ ) ( दि० १ । ३ ) । अव्यभिचारि भ्रमभिन्नं ज्ञानम् ( वात्स्या ० ) ( गौ० वृ० ) । व्यवसायात्मकम् सविकल्पकम् (वात्स्या० १1१1४ ) ( गौ० वृ० १|१|४ ) । अत्र इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानम् इति प्रत्यक्षलक्षणे आत्ममनः संयोगजन्यसुखादिवारणाय ज्ञानम् इति पदं दत्तम् (गौ० वृ० १|१|४ ) । इन्द्रियत्वावच्छिन्नकारणतानिरूपितकार्यताशालिज्ञानत्वम् इत्यर्थः इति प्राश्न आहु: ( म०प्र० १ पृ०८ ) । इदं च जन्यप्रत्यक्षस्यैव लक्षणम् इति बोध्यम् । तदुत्पत्तिप्रकारस्तु आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेन । ततः प्रत्यक्षं ज्ञानमुत्पद्यते (वात्स्या० ११.४ ) ( तर्कभा० पृ० ६ ) ( त० कौ० ) । अत्र प्रत्यक्षत्वं च ज्ञानत्वव्याप्यजातिविशेषः । अत्र व्युत्पत्तिः अक्षमक्षं प्रतीत्योत्पद्यते इति प्रत्यक्षम् इति । अक्षाणीन्द्रियाणि घ्राणरसनचक्षुस्त्वक्श्रोत्रमनांसि षट् ( प्रशस्त० गु० पृ० २५ ) । प्रतिगतमाश्रितमक्षम् । अत्यादयः कान्ताद्यर्थे द्वितीयया ( २/२/१८ पा० सूत्रे वार्तिकम् ) इत्यनेन समासः । प्राप्तापन्नालंगतिसमासेषु परवल्लिङ्गप्रतिषेधात् अभिधेयवल्लिङ्गे सति सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः (न्या० बि० १ पृ०७ ) । अत्र भाष्यम् । इन्द्रियस्यार्थेन संनिकर्षादुत्पद्यते यज्ज्ञानं तत्प्रत्यक्षम् । न तदानीमिदं भवति । आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेनेति ( वात्स्या० १1१1४ ) | अत्रेदं बोध्यम् । इन्द्रियाणां वस्तु प्राप्य प्रकाशकारित्वम् इति नियमोत्र द्रष्टव्यः ( म०प्र० ) ( त० भा० पृ० ६ ) । प्रत्यक्षं प्रति विषयस्य तादात्म्येन हेतुत्वम् इति नैयायिकानुभवसिद्धः कार्यकारणभावः । भट्टास्तु विषयस्य कार्यकाल - वृत्तित्वेन हेतुत्वम् न तु नैयायिकमत इव कार्यपूर्व वृत्तित्वेन हेतुत्वम् इत्यङ्गीचक्रुः (त० प्र० ४ पृ० १२४ ) । [ ख ] ज्ञानाकरणकं ज्ञानम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org