________________
न्यायकोशः। प्रतिबन्धिः( धी)-[क]-प्रतिबन्दिवदस्यार्थीनुसंधेयः । [ख] प्रति
वादिमतेनिष्टान्तरप्रसञ्जनम् । यथा आये प्रतिबन्धिमाह (गौं० वृ०
२।२।३४ ) इत्यत्र । अत्राधिकं तु प्रतिबन्दिशब्देवलोकनीयम् । प्रतिविम्बनम्-१ अनुकरणम् । यथा दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रति
बिम्बनम् ( सा० द० परि० १० श्लो० ६९८) इत्यादौ । २ बिम्बानुरूपप्रतिच्छायाभवनम् । यथा मायावादिवेदान्तिमते जीवेश्वरयोर्बिम्ब
प्रतिबिम्बभावः इत्यादौ । अत्राधिकं तु सिद्धान्तलेशे द्रष्टव्यम् । प्रतिभा—(बुद्धिः ) १ [क] स्फूर्त्याख्यो बुद्धिविशेषः ( दि. १ मङ्ग. . पृ० ८ )। यथा समाप्तिस्तु बुद्धिप्रतिभादिकारणकलापात् (मु० १ .. मङ्गल० ) इत्यादौ । [ख] प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता । (रुद्र० ) । २ दीप्तिः इति केचिद्वदन्ति । प्रतिभूः-[क] प्रति भवति तत्कार्ये तद्वद्भवतीति प्रतिभूः ( मिता० अ०
२ श्लो० १० ) ( जामीन इति प्र०)। [ख] धनिकाधमर्णयोरन्तरे
यस्तिष्ठति विश्वासार्थं स प्रतिभूः ( सिद्धान्तकौमुदी पृ० ३१४ ) । प्रतियोगः-१ विरोधः । २ विरुद्धसंबन्धः। प्रतियोगिता-१ विरोधित्वम् (निषेध्यत्वम् ) (न्या० सि० दी. पृ० ५६)।
घटाभावस्य घटो विरोधी भवति इति तस्य तथात्वं संपद्यते । तच्च स्वरूपसंबन्धविशेषः ( दीधि० २ ) (त० प्र०)। यथा घटो नास्तीत्यादौ घटे अभावप्रतियोगितास्ति। अत्र अभावनिरूपिता घटनिष्ठा प्रतियोगितास्ति इति तदर्थो ज्ञेयः। अत्रेदमवधेयम् । घटाभावादिबुद्धेर्विशिष्टवैशिष्ट्यावगाहिबुद्धितया अभावबुद्धिर्विशेष्यविशेषणसंसर्गावगाहिनी विशिष्टबुद्धित्वात् संयोगेन घटवद्भूतलम् इत्यादिबुद्धिवत् इत्यनुमानेन अभावे घटादिवैशिष्ट्यबुद्धौ संबन्धतया अतिरिक्तप्रतियोगित्वसिद्धिः इति नव्यनैयायिका आहुः । अत्रायं नियमः अभावप्रत्ययो विशिष्टमर्यादां नातिशेते इति । श्रीहर्षखण्डनादौ दीधितिकारमते च तस्य स्वरूपसंबन्धविशेषरूपत्वेन प्रतियोगिस्वरूपत्वमनुयोगिस्वरूपत्वं वा स्वीकार्यम् ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org