________________
न्यायकोशः। तेनैवोपपत्तौ न प्रतियोगित्वरूपातिरिक्तपदार्थकल्पना इति । अत्रोपयोगित्वेनाधिकमुच्यते । प्रतियोग्यभावान्वययोस्तुल्ययोगक्षेमता इति न्यायः । तदर्थश्च यादृशसमभिव्याहारस्थले येन संबन्धेन यद्धर्मिणि येन रूपेण यद्वत्त्वं नबसत्त्वे प्रतीयते तादृशस्थले नबा तद्धर्मिणि तादृशसंबन्धावच्छिन्नतादृशधर्मावच्छिन्नप्रतियोगिताकतदभावः प्रत्येतव्यः (ग० व्यु० का० १ )। यथा पीतघटे घटो न नीलः इति वाक्यं प्रयुज्यते । तत्र नवनिर्मोकदशायां घटो नीलः इत्यत्र येन संबन्धेन ( तादाम्यसंबन्धेन ) नीलपदार्थो घटे प्रतीयते तेनैव संबन्धेन नीलप्रतियोगिकाभावः घटो न नीलः इति वाक्यात्प्रत्येतव्यः इति ( कृष्ण० )। एवम् अत्यन्ताभावस्थलेपि भूतले घटो नास्ति इत्यादौ पूर्वोक्तो न्यायः संयोजनीयः । केचित्तु प्रतिकूलसंबन्धवत्त्वम् प्रतियोगित्वम् । यथा घटाभावस्य संबन्धः स्वरूपसंबन्धः तस्य प्रतिकूलः संयोगः तद्वत्त्वात् घटो घटाभावस्य प्रतियोगी भवति इत्याहुः । अखण्डो धर्मविशेषः प्रतियोगिता इति संप्रदायः ( मू० म० १)। अन्योन्याभावविरहात्मत्वम् इत्यप्यन्य आहुः ( वै० उ० ९।११८ ) ( न्या० सि० दी० पृ० ५६ ) । अत्रा- . चार्या आहुः अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ( कु० स्त० ३ श्लो० १) इति । एतन्मते इदं च वस्तुनिष्ठमभावनिरूपितं प्रतियोगित्वम् इति विज्ञेयम् । अत्र च यस्य पदार्थस्य अभावः तत्त्वं प्रतियोगित्वम् इति लौकिकजना वदन्ति । २ वित्तिवेद्यत्वम् ( चि० ३ )। यथा चन्द्रवन्मुखमित्यादौ चन्द्रस्य सादृश्यप्रतियोगित्वम् । ३ अन्वयित्वम् ( अन्वयप्रतियोगित्वम् )। तच्च स्वरूपसंबन्धविशेषः। यथा चैत्रस्य पुत्र इत्यादौ षष्ठयन्तार्थस्य प्रतियोगित्वम् । यथा वा संयोगेन घटवद्भूतलमित्यादौ घटे भूतलानुयोगिकसंयोगसंबन्धप्रतियोगिता। अत्र विशिष्टबुद्धौ प्रकारतया भासमानस्य घटस्य संसर्गप्रतियोगित्वम् इति विशेष्यतया भासमानस्य तु भूतलस्य अनुयोगित्वम् इति च ज्ञेयम् । ४ निरूपकत्वम् । यथा प्रकारताप्रतियोगित्वमनुमितौ (ग० सामा० अत्र वदन्ति इति कल्पे ) । यथा वा विलक्षणविषयताप्रतियोगिकत्वं संशयत्वम् इत्यादौ ( ग० सत्प्र० अर्वाचीन० पृ० १४ )। ५ स्वाश्रय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org